________________
कीर्तिकलाव्याख्याविभूषितः
धामतिशयानां सम्भव इति साधारणत्वात्कथमाश्चर्यकरत्वं तन्महिम्न इति चेन्न । कर्मक्षयाऽतिशयजन्यास्तेऽतिशयाः, कर्मक्षयाऽतिशयश्व वीतराग एवेति न तेषां साधारण्यसम्भव इति मनसिकृत्य तमेवाह--
अनन्तकालप्रचितमनन्तमपि सर्वथा । त्वत्तो नाऽन्यः कर्मकक्षमुन्मूलयति मूलतः ॥१३॥
अनन्तेति-त्वत्तः भवतो वीतरागतः, अन्यः, सर्वथा सर्वप्रकारेण, सर्वातवैः कृत्वेत्यर्थः । अनन्तकालप्रचितम्-अनन्तेन कालेन प्रचितम् उपचितम् , उपार्जितमित्यर्थः । बद्धमिति यावत् । सृष्टेरनादित्वाज्जीवस्य च नित्यत्वादिति भावः । अत एव, अनन्तम्अन्तरहितम् , अपिना सङ्ख्यातस्याऽसङ्ख्यातस्य तु कथैव केति सूच्यते । कर्मकक्षम् = कर्मैवोन्मूलनीयत्वात्समुदायरूपत्वाच्च कक्षं वनमिव, तत् , मूलतः समूलम् , यथा न पुना रोहो भवेदिति भावः । न, उन्मूलयति-उत्पाटयति, नाशयतीत्यर्थः । अन्यस्य तादृशज्ञानदर्शनचारित्ररूपसाधनाऽभावादिति भावः ॥१३॥ ... ननु कर्मक्षयान्मुक्ति भवतु, तथेच्छया तत्करणात् । अतिशयस्तु कथम् ?, किञ्चाऽतिशयेच्छया तत्करणे कथं वीतरागतेति विप्रतिपत्तिं निरस्यन्नाह
तथोपाये प्रवृत्तस्त्वं क्रियासमभिहारतः । यथाऽनिच्छन्नुपेयस्य परां श्रियमशिश्रियः ॥१४॥
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org