________________
२४
श्रीवीतरागस्तवे तृतीयः प्रकाशः
पश्चिमे = पश्चाद्, भागे - प्रदेशे, महः - तेजः, 'महस्तुत्सवतेजसो ' रित्यमरः । वपुः=शरीरम्, दुरालोकम् - दुःसाध्यदर्शनम्, माभूत् = न जायताम्, इतीव=अस्मादभिप्रायादिव, जितमार्त्तण्डमण्डलम् = जितमधिकतेजस्त्वात्पराभूतं मार्त्तण्डमण्डलं सूर्यबिम्बं यथा स्यात्तथा, सूर्यबिम्बादप्यधिकतेजस्वीति भावः । यद्, उत्पिण्डितम् =उच्चैः संजातपिण्डमिव स्थितम् पिण्डाकारतामापन्नं वा, भामण्डलरूपेण स्थितमिति यावत् ॥११॥
एवमतिशयानभिधाय तदुपसंहरन्नाह -
स एष योगसाम्राज्यमहिमा विश्वविश्रुतः । कर्मक्षयोत्थो भगवन् ! कस्य नाश्चर्यकारणम् १२||||
स इति -- विश्वविश्रुतः = जगत्ख्यातः, न त्वस्मादृग्वचनमात्रसिद्ध इति भावः । कर्मक्षयोत्थः = घातिकर्मक्षयजनितः, स एष = वर्णित प्रकारः, योगसाम्राज्यमहिमा - योगः कर्मक्षयकरोऽनुष्ठानविशेषः शुभध्यानादिरूपः, तस्य यत्साम्राज्यम् चक्रवर्त्तित्वम्, सर्वोत्कृष्टस्य सर्वप्रकारस्य च योगस्य स्वस्मिन् सत्त्वाच्चक्रवर्त्तित्वमुच्यते, सम्राड् हि सार्वभौमो भवतीति भावः । तस्य महिमा माहात्म्यरूपोऽतिशयः, कस्याश्चर्यकारणं न अपि तु सर्वस्यैवाश्चर्यजनक - मिति काक्वाऽर्थः । असाधारणं हि वैशिष्ट्यमाश्चर्यकरं भवत्येवेति भावः ॥१२॥
ननु भोगादिना कर्मक्षयोऽन्यत्राऽपीति तन्मूलत्वेऽन्यत्राऽप्ये
Jain Education International 2010_dor Private & Personal Use Only
www.jainelibrary.org