________________
कीर्तिकलाव्याख्याविभूषितः .
सिंहनादात्-सिंहगर्जनमाकर्ण्य, द्विपाः गजा इव, यद् , द्रुतम्= सद्य एव, विद्रवन्ति पलायन्ते, दूरीभवन्तीतियावत् । विद्रुतिक्रियासाम्यादुपमा ॥९॥
दुर्भिक्षनिवारणाऽतिशयमाहयत्क्षीयते च दुर्भिक्षं क्षितौ विहरति त्वयि । सर्वाऽद्भुतप्रभावाढ्ये जङ्गमे कल्पपादपे ॥१०॥
यदिति-सद्भुतप्रभावाढ्ये सर्वे ये अद्भुता विस्मयकारिणःप्रभावाः, वर्णितवर्ण्यमानवर्णयिष्यमाणप्रकाराः प्रतापाः, तैः कृत्वाऽऽध्ये समृद्धतरे, अत एव, जङ्गमे गतिशीले, विहरमाणत्वादितिबोध्यम् । एषोऽप्यद्भुतप्रभावः, कल्पद र्हि स्थावर इति बोध्यम् । कल्पपादपे-कल्पवृक्षतुल्ये, कामवर्षित्वादिति भावः । त्वयि, विहरति = विहरमाणे सति, क्षितौ = उक्तप्रमाणायां पृथिव्याम् , दुर्भिक्षम्-दुष्कालः, चःपूर्वोक्तसकलाऽशिवसमुच्चये । यत् , क्षीयते= अपगच्छति, सुभिक्षं जायत इति यावत् । तत्कारणस्याऽतिवृष्ट्यादेः पूर्वमेवाऽभावादिति भावः ॥१०॥
भामण्डलातिशयमाहयन्मूनः पश्चिमे भागे जितमार्तण्डमण्डलम् । मा भूद्वपुर्दुरालोकमितीवोत्पिण्डितं महः ॥११॥ यदिति-मूर्ध्न: मस्तकस्य, अर्थाद्वीतरागस्येति लभ्यते ।
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org