________________
२२
श्रीवीतरागस्तवे तृतीयः प्रकाशः
विनश्यन्ति ॥७॥
अतिवृष्ट्य नावृष्टिनिवारणाऽतिशयमाह - कामवर्षिणि लोकानां त्वयि विश्वैकवत्सले । अतिवृष्टिरवृष्टिवी भवेद्यनोपतापकृत् ॥ ८ ॥
-
कामेति — त्वयि, विश्वैकवत्सले - विश्वस्मिन् जगति विषये, सर्वस्मिन् प्राणिनि विषये वा, एकोऽसाधारणो वत्सलः स्नेहवान्, तस्मिन्, अतएव, लोकानाम् = सर्वप्राणिनाम्, कामवर्षिणि यथेष्टप्रदे सति । यो हि यस्मिन् स्निह्यति, स तस्येष्टं सम्पादयति, अन्यथा स्नेह एवं दुरुपपादः स्यादिति भावः । अतिवृष्टिः इष्टमपेक्ष्याऽत्यधिकवर्षणम्, वा तथा, अवृष्टिः - अनावृष्टिः, यद्, उपतापकृत् = पीडाकृत्, न भवेत् । अतिवृष्टावनावृष्टौ वा सत्या - मपि न लोकानां पीडा जायते, यद्वा फलाभावमुखेन कारणाभाव एव प्रतिपाद्यते । ततश्चाऽतिवृष्टयनावृष्टयोरेवाऽभावो भवेदित्यर्थः ||८||
स्वचऋपरचक्रोपद्रवनिवारणातिशयमाह---
स्वराष्ट्रपरराष्ट्रेभ्यो यत्क्षुद्रोपद्रवा द्रुतम् । विद्रवन्ति त्वत्प्रभावात् सिंहनादादिव द्विपाः ॥९॥
=
स्वेति — त्वत्प्रभावात्, स्वराष्ट्रपरराष्ट्रेभ्यः = स्वराष्ट्रं परराष्ट्राणि च तान्यपेक्ष्य, तन्निमित्तमिति यावत् । क्षुद्रोपद्रवाः = क्षुद्रा निकृष्टप्रकारा अभिचारकृताः शस्त्रादिकृता वोपद्रवा उपसगी:
Jain Education International 2010_dor Private & Personal Use Only
www.jainelibrary.org