________________
कीर्तिकलाव्याख्याविभूषितः
---
-
-
-
स्त्रीति-भुवः उक्तप्रमाणाया भूमेः, तले-पृष्ठे, स्त्रीक्षेत्रपद्रादिभवः स्त्रियश्च क्षेत्राणि सस्यादिभूमयश्च पद्रादीनि ग्रामादीनि च, तेभ्यो निमित्तभूतेभ्यः, भव उप्ततिर्यस्य तादृशः, वैराग्निः वैरं विरोध एव सर्वोपतापकत्वादग्निः, सः । त्वत्कृपापुष्करावर्त्तवर्षादिव त्वत्कृपैवाऽवैरतायुपदेशादिरूपा, पुष्करावर्तस्य तदाख्यस्य धारासारवृष्टौ प्रसिद्धस्य वर्ष वृष्टिः, तस्मात् तत्प्राप्येवेति हेतृत्प्रेक्षा, वस्तुतस्तु सोऽतिशय एवेति बोध्यम् । यब्लोपे पञ्चमी । यत, प्रशाम्यति-विगच्छति, सर्वे निर्वैरा भवन्तीति यावत् ॥ ६ ॥
मारिनिवारणातिशयमाह--- त्वत्प्रभावे भुवि भ्राम्यत्यशिवोच्छेदडिण्डिमे । सम्भवन्ति न यन्नाथ ! मारयो भुवनारयः ॥७॥
त्वदिति - नाथ !, अशिवोच्छेदडिण्डिमे = अशिवानां कल्याणेतराणाम् , उपद्रवाणामिति यावत् । उच्छेदस्य समूलं घातस्य डिण्डिमे पटहे, उपलक्षणत्वात्तद्वादनपूर्वकघोषणारूपे, नृपो हि डिण्डमघोषणापूर्वकमन्यायं निरुणद्धीति प्रसिद्धम् । तादृशे, त्वत्प्रभावे त्वत्प्रतापे, भ्राम्यति-निरन्तरायं प्रसरति सति, भुवि उक्तप्रमाणे प्रदेशे, भुवनारयः = भुवनस्य लोकस्यारयः पीडकत्वान्नाशकत्वाच्च शत्रुभूताः, मारयः लोकनाशिकाः स्वनामख्याता उत्पाताः, यद्, न सम्भवन्ति-नोत्पद्यन्ते, उपलक्षणत्वात्सत्यश्च
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org