________________
२०
श्रीवीतरागस्तवे तृतीयः प्रकाशः
गदा रोगा एवाम्बुदा मेघास्ते, “ रोगव्याधिगदामया " इत्यमरः । अञ्जसा = सत्त्वरं निश्चयेन च यद्, विलीयन्ते नश्यन्ति, पूर्वेत्युपलक्षणम्, षण्मासान् यावदग्रेऽपि, उत्पद्यमानानां तु भूतभविष्यतोरभावादेवाऽभावः । अत्र विहारेऽनिलोर्मित्वारोपागदेऽम्बुदत्वारोप इति परम्परितरूपकालङ्कारः
मूषकादीतिनिवारणाऽतिशयमाह -
नाविर्भवन्ति यद्भूमौ मूषकाः शलभाः शुकाः । क्षणेन क्षितिपक्षिप्ता अनीतय इवेतयः ॥५॥
11811
-
नेति -- भूमौ - त्वद्विहारात्सपादयोजनशतमितदेशे, ईतयः = ईतिपदवाच्याः, यदुक्तम् – 'अतिवृष्टिरनावृष्टि मूषकाः शलभाः शुकाः । प्रत्यासन्नाश्च राजानः पडेता ईतयः स्मृताः " । इति । मूषकाः, शलभाः, शुकाः, चोऽर्थाद्गम्यते । अन्याश्च तिस्र । ईतयोऽग्रे पृथगतिशयविषयतया प्रतिपादयिष्यन्ते इति ध्येयम् । क्षितिपक्षिप्ताः - क्षितिपेन राज्ञा क्षिप्ता दण्डादिना दूरीकृताः, अनीतयः - लक्षणया नीतिविरुद्धाचरणानि, इव क्षणेन - सद्य एव विना प्रयासमिति भावः । यद्, नाविर्भवन्ति दूरीभवन्ति, न पुनः प्राकट्यं यान्ति न सम्भवन्ति चेत्यर्थः ॥ ५ ॥
वैरनिवारणाऽतिशयमाह -
स्त्रीक्षेत्र पद्रादिभवो यद्वैराग्निः प्रशाम्यति । त्वत्कृपापुष्करावर्त्तवर्षादिव भुवस्तले ॥ ६ ॥
Jain Education International 2010_dor Private & Personal Use Only
www.jainelibrary.org