________________
कीर्तिकलाव्याख्याविभूषितः
॥२॥
वीतरागस्य भाषायाः सर्वभाषापरिणामातिशयमाह - तेषामेव स्वस्वभाषापरिणाममनोहरम् । अप्येकरूपं वचनं यत्ते धर्माऽवबोधकृत् तेषामिति – ते, एकरूपम् = अर्धमागध्यभिधैकभाषारूपम्, अपिनैकभाषया विविधभाषावतां बोधाऽसम्भवः सूच्यते । वचनम् = देशनावाणी, तेषाम् = तिर्यङ्नृदेवानाम् एवकारेण प्रत्येकं तत्त द्भाषापरिणामः सूच्यते । स्वस्वभाषापरिणाममनोहरम् = स्वस्य स्वस्य प्रत्येकं तस्य तस्य भाषा, तद्रूपेण परिणामेन भावेन मनोहरं हृदयावर्जकं यथा स्यात्तथा । सर्वेषां हि स्वभाषा प्रिया भवति सुबोध्या चेति तया प्रतिपादिते तत्त्वे तेषां मनोऽनुरज्यतीति भावः । यद्, धर्माऽवबोधकृत् = धर्मज्ञानजनकम्, अस्तीति शेषः । धर्ममर्मणोऽन्यभाषया दुर्बोध्यत्वादिति भावः 11311 सपादयोजनशते रोगनिवारणाऽतिशयमाह - साग्रेऽपि योजनशते पूर्वोत्पन्ना गदाम्बुदाः । यदञ्जसा विलीयन्ते त्वद्विहाराऽनिलोर्मिभिः ॥४॥
साग्रे इति - साग्रे - साधिके, सपादे इति यावत् । अपिना, न केवलं विहारासन्नदेश एवेति सूच्यते । योजनशते - योजनशतमितदेशमभिव्याप्य, त्वद्विहाराऽनिलोर्मिभिः =त्वद्विहारा एवाs प्रतिहततया सन्तानरूपतया सतततया चाऽनिलोर्मयः समीरपरम्पराः, तैः कृत्वा, पूर्वोत्पन्नाः- त्वद्विहारकालात्प्रागुद्भूताः, गदाम्बुदाः=
1
१९
Jain Education International 2010_dor Private & Personal Use Only
www.jainelibrary.org