________________
श्रीवीतरागस्तवे तृतीयः प्रकाशः
करूपात् , सर्वाभिमुख्यतः मुखमभिलक्ष्याऽभिमुखम् , तस्य भाव आभिमुख्यम् , सर्वस्य लोकालोकस्य यदाभिमुख्यम् , पुरः स्थितवद् दृष्टता ज्ञातता च, केवलज्ञानदर्शनाभ्यामिति भावः। तत्सत्त्वाद्धेतोः । सम्मुखीन: अभिमुखस्थः, अर्थात्प्रजानामिति लभ्यते । यस्य हि योऽभिमुखम् , स तस्याऽप्यभिमुखमेवेति सर्वस्तव सम्मुखीन इति त्वमपि सर्वस्य सम्मुखीन इति स्पष्टं तात्पर्यम् । प्रजाः प्राणिनः, सर्वथा सर्वप्रकारेण, अहिंसाद्युपदेशद्वारेति भावः । आनन्दयसि यत् । स तव योगसाम्राज्यमहिमेत्यप्रेतनेनाऽन्वयः । तीर्थकृन्ना मकर्मोपार्जनं योगादेवेति परम्परया योगसाम्राज्यस्यैवैष महिमेत भावः ॥१॥
अल्पप्रदेशेऽपि बहूनां समावेशातिशयमाहयद् योजनप्रमाणेऽपि धर्मदेशनसमनि । सम्मान्ति कोटिशस्तिर्यग्नदेवाः सपरिच्छदाः ॥२॥
यदिति-सपरिच्छदाः= सपरिवाराः, अतएव, कोटिशः : कोटिसङ्ख्याकाः, तिर्यजृदेवाः तिर्यश्चश्च नरश्च देवाश्च, योजन प्रमाणे-योजनमात्रविस्तारे, अपिना तावतां तावति सम्मानाऽसम्भवः सूच्यते । धर्मदेशनसमनि = धर्मस्य, दिश्यतेऽस्मिन्निति देशनं, तच्च तत्सद्म च तस्मिन् , समवसरण इत्यर्थः । यत् सम्मान्ति = समावेशं प्राप्नुवन्ति, स एषोऽतिशयः, योगसाम्राज्य महिमा ॥२॥
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org