SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ (2) कीर्तिकलाच्याख्याविभूषितः इति श्री वीतरागस्तोत्रे द्वितीयः प्रकाशः ॥ २ ॥ लोकोत्तरेति–तव, भवस्थिति:- जन्मसम्बन्धिमर्यादा, भवसम्बन्धिव्यवहारो वा, लोकोत्तरचमत्कारकरी= लोकोत्तरोऽलौकिको यश्चमत्कारो विस्मयजनकोऽतिशयस्तं करोतीत्येवंशीला, अलौकिकचमत्कारजनिकेत्यर्थः । तत्र हेतुमाह – यतः, आहारनिहारौ - भोजनोत्सर्गक्रिये, चर्मचक्षुषाम्=चर्माणि तदात्मकानि चक्षूंषि येषां तादृ-शानाम्, दिव्यदृष्टिशून्यानामिति यावत् । न गोचरः - विषयः, न प्रत्यक्षमित्यर्थः । अत्राऽऽहारनीहारौ न गोचर इति विभिनवचनता ' वेदाः प्रमाणमि तिवत्समाधेया । सर्वस्य ह्याहारादि गोचर:, तव तु नेति तवाऽलौकिक चमत्कारकरी भवस्थितिर्भवत्ये " वेति भावः ॥ ८ ॥ " १७ इति श्री वीतरागस्तवे श्रीकीर्तिचन्द्रविजगणिविरचितायां कीर्ति - कलाख्यायां व्याख्यायां द्वितीयः प्रकाशः ॥ २ ॥ तृतीयः प्रकाशः अथाऽर्हतः क्षायिकानतिशयान् वर्णयितुमुपक्रान्त आदौ तीर्थकृन्नामकर्मैव फलकथनभङ्गया वर्णयन्नाह - सर्वाऽभिमुख्यतो नाथ ! तीर्थकुन्नामकर्मजात् । सर्वथा सम्मुखीनस्त्वमानन्दयसि यत्प्रजाः सर्वेति-नाथ !, तीर्थकृन्नामकर्मजात्= तीर्थङ्करनामकर्मविपा 11 2 11 Jain Education International 2010_dor Private & Personal Use Only www.jainelibrary.org
SR No.002579
Book TitleKirtikala
Original Sutra AuthorHemchandracharya
AuthorMunichandrasuri
PublisherSha Bhailal Ambalal Petladwala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy