________________
१६
श्रीवीतसगस्तवे द्वितीयः प्रकाशः
6
दित्वं च सूचयति । अवित्रम् - अनामगन्धि, “ विस्रं स्यादामगन्धि यदि ” त्यमरः । तथा, अबीभत्सम् - जुगुप्साया अविषयः, शुभ्रम् - शुक्लम् अतएव, जगद्विलक्षणम् = जगद्भयः सर्वप्राणिमांसेभ्यो विलक्षणम्' विभिन्नोत्तमगुणम् । सर्वेषां हि मांसं विखं बीभत्सं रक्तवर्ण च भवति, तव तु तदपि न तथा प्रत्युतोत्तमगुणमेव । यत्र च निकृष्टस्य जगद्विलक्षणता, तत्राऽन्यस्य किमु वक्तव्यमिति सुष्ठुच्यते " किंवक्तुमीश्महे ? " इति । तदेवं द्वितीय सहजोऽतिशयो वर्णितः ॥६॥
·
तृतीयं सहजातिशयमाह --
जलस्थलसमुद्भूताः सन्त्यज्य सुमनः स्रजः । तव निःश्वाससौरभ्यमनुयान्ति मधुव्रताः ॥ ७ ॥ जलेति-जलस्थलसमुद्भूताः = जलेषु स्थलेषु च समुद्भूता सुमनः स्रजः = पुष्पाणि तन्माल्यानि च यद्यपि माल्यं न जलस्थल समुद्भूतम्, तथापि कार्यकार्ये कार्यत्वोपचारात्तथोक्तिरिति ध्येयम् । सन्त्यज्य, मधुव्रताः=भ्रमराः, तव, निःश्वाससौरभ्यम् = निःश्वासामोदम्, अनुयान्ति = अनुसरन्ति, सर्वपुष्पाधिकं तव निःश्वाससौरम्यमिति व्यतिरेकः ॥ ७ ॥
¿
चतुर्थ सहजातिशयं वर्णयन्नाह - लोकोत्तरचमत्कारकरी व भवस्थितिः । यतो नाऽऽहारनीहारौ गोचरचर्मचक्षुषाम् ॥ ८ ॥
Jain Education International 2010_dor Private & Personal Use Only
www.jainelibrary.org