________________
कीर्तिकलाव्याख्याविभूषितः
न केवलं रागमुक्तं वीतराग ! मनस्तव । वपुःस्थितं रक्तमपि क्षीरधारासहोदरम् ॥५॥
नेति—वीतराग !; तव, मनः, केवलम् एकमात्रम् , तव वीतरागत्वादेव हेतोः, रागमुक्तम् रागो विषयेष्वादरः, पक्षे रजनद्रव्यं च, उपलक्षणत्वाल्लौहित्यम् , तेन मुक्तं रहितम् , न, किन्तु, वपुःस्थितम् शरीरान्तर्गतम् । रक्तम्-रुधिरम् , अपिना मनसः समुच्चयः । रागमुक्तमिति सम्बध्यते । रक्तशब्दः स्वप्रवृत्तिनिमित्तं रक्तत्वमपि त्वदतिशयमहिम्ना त्यजतीति भावः । अत एव, क्षीरधारासहोदरम्-क्षीरस्य धारा सन्ततिस्तत्सहोदरम् तुल्यम् , क्षीरपूरधवलमित्यर्थः । वीतरागशरीरस्थरक्तं धवलमेव भवतीत्येवमुक्तिरिति बोध्यम् ॥१॥
मांसाऽतिशयमाहजगद्विलक्षणं किं वा तवाऽन्यद्वक्तुमीश्महे ? । यदवित्रमबीभत्सं शुभ्रं मांसमपि प्रभो! ॥६॥
जगदिति-प्रभो !, वा अथवा, अन्यत्-त्वद्गुणान्तरम् , किम् कथम् , वक्तुम् वर्णयितुम् , ईश्महे प्रभवामः ?, यद्वा किं वक्तुमीश्महे इति प्रश्नः, काक्वा नैवेत्यर्थः । बहुवचनेन मादृशा बहवोऽप्यन्येऽसमर्था एवेति सूच्यते । तत्र हेतुमाह-यद्-यतः, तव, मांसमपि, अपिमासस्य लोके निकृष्टत्वमव्यभिचारेण विस्रा
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org