________________
श्रीवीतरगस्तवे द्वीतीयः प्रकाशः
-
-
पादनमिव, तथाऽपि बाल्येऽर्हतः शक्रसङ्क्रमिताङ्गुष्ठसुधापानरूपमितरवैलक्षण्यमपि भङ्गया प्रदर्शयितुं तथोत्प्रेक्षितमिति सन्तोष्टव्यम् ॥३॥
. स्वेदराहित्याऽतिशयमाहत्वय्यादर्शतलालीनप्रतिमाप्रतिरूपके । क्षरत्स्वेदविलीनत्वकथाऽपि वपुषः कुतः १ ॥४॥
त्वयीति--त्वयि, आदर्शतलालीनप्रतिमाप्रतिरूपके-आदर्शो दर्पणः, तस्य तलेऽन्तरालीना स्थिता प्रतिमा छायैव प्रतिरूपकम् शीतधर्मादिप्रसराभावसमान्यात्प्रतिनिधि र्यस्य, तादृशे सति, वपुषः= शरीरस्य, अर्थात्तवेत्यर्थः । क्षरत्स्वेदविलीनत्वकथा क्षरद्भिस्तापश्रमादिभिः कृत्वा स्रवद्भिः स्वेदैर्धर्मजलै विलीनत्वस्य व्याप्ततायाः कथा वार्ता, अपिना तद्विलीनता तु दूरे इति सूच्यते । कुतः = न कुतोऽपि निमित्तादित्यर्थः । यत्र यत्प्रतिनिधौ यस्यैकान्ततोऽ. त्यन्ततश्चाभावः, तत्र तु मुख्ये तद्वात्ताऽप्यसम्भविनी । किश्च दर्पणस्थप्रतिबिम्बे प्रतिबिम्बमानशरीरस्थस्वेदच्छायाया अपि प्रतिबिम्बितत्वास्कथञ्चित्स्वेदसम्बन्धों वर्णयितुं शक्यतेऽपि, त्वयि तु तेन प्रकारेणाऽपि तन्न सम्भवतीति त्वच्छरीरप्रतिनिधित्व प्रतिबिम्बे, न तु. स्वच्छरीरं तदनुकरोतीति गूढार्थः । छायावत्त्वच्छरीरं बहिरुपाविकृतविकाराऽनास्पदमिति यावत् । तदेवं सहजः प्रथमोऽतिशयों वर्णितः ॥४॥ .
सहज द्वितीयमतिशयं वर्णयन् रुधिराऽतिशयमाह
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org