________________
.. कीर्तिकलाव्याख्याविभूषिता
-
तवाङ्गे नित्यं तासां तानि तथेत्यर्थः । अत्र सुगन्धिनीतिविशेषणाननुगुणो नेत्रेषु भृङ्गताऽऽरोपः । नहि नेत्रपाते सुगन्धित्वस्य कोऽप्युपयोगः, किन्तु रूपस्यैवेति चिन्तनीयं सहृदयैः ॥२॥
अथ निरामयाऽतिशयमाह- . दिव्याऽमृतरसास्वादपोषप्रतिहता इव । समाविशन्ति ते नाथ ! नाऽङ्गे रोगोरगव्रजाः ॥३॥ ... दिव्येति–नाथ ! ते, अङ्गे शरीरे, " इन्द्रियायतनमक
........बेरसंहननदेहसञ्चराः" (अभि. चि. १३५६३३) इति । रोगोरगवजाः रोगाः प्रसिद्धाः शारीरा मानसाश्च, ते वेदनातिशयजनकतया नाशकतया चोरगाः सर्प इव, तेषां व्रजाः समूहाः । दिव्यामृतरसास्वादपोषप्रतिहता: दिव्योऽशष्ठे शक्रसमितोऽमृतरसः, न तु लौकिकस्तथाख्यातो दुम्वादिः, तस्य बाल्ये य आस्वादः पानम् , तेन तजनितेन पोषेण रोगनिवारकशक्तिसंवर्धनेन कृत्वा प्रतिहताः कुण्ठितप्रभावा निषिद्धप्रसरा वा कृताः, इव, वस्तुतस्तु शरीरस्य तथा स्वाभावादेव, न समाविशन्ति-नाऽऽकामन्ति, आक्रमणाऽवसरं न लभन्ते । अमृतम्सेमोरगविषाऽप्रसर उचित एव । किञ्चाऽन्यथाऽपि पुष्टे शरीरे न रोगाऽवसरः, अमृतरसास्वादपुष्टे तु कथैव केति भावः । यद्यप्यत्र स्वाभाविकाऽतिशये सहेतुकत्वोत्प्रेक्षणं तस्य कृत्रिमताऽऽ
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org