________________
श्रीवीतरगस्तवे द्वितीयः प्रकाशः
| १ | ४९ | ) इति । यतः, अधौतशुचिः - मज्जनाद्यभावादक्षालितोऽपि विशुद्धः, सहजनिर्मल इत्यर्थः । अतः, कमिव नाऽऽक्षिपेत् ? अपि तु सर्वमप्यन्यदीयं कायमाक्षिपेदधः कुर्यादेवेत्यर्थः । सर्वस्यैव ह्यन्यस्य कायस्य धौतशुचित्वात्तादृश सहजगुणाऽभावादपकष्टत्वात् । अपकृष्टश्चोत्कृष्टेन पराभूयत एवेति भावः ॥ १॥
गन्धाऽतिशयमाह
१२
मन्दारदामवन्नित्यमवासितसुगन्धिनि ।
तवाङ्गे भृङ्गतां यान्ति नेत्राणि सुरयोषिताम् ॥२॥ मन्दारेति -- मन्दारदामवत् मन्दारः कल्पवृक्षः, तस्य दाम पुष्पमाल्यम्, तद्वत् । नित्यम् = सर्वदैव, मन्दारमाला यथा सर्वदा सुरभिस्तथेत्यर्थः । अवासितसुगन्धिनि-वासितं सुगन्धिद्रव्येण संश्लेषणम्, तद्विनैव सुगन्धिनि सौरभ्यवति । अत एव नित्यं तथा, वासितं हि कृत्रिमतया कालवशादपेत्यैवेति बोध्यम् । तादृशे, तवाङ्गे, सुरयोषिताम् - सुरस्त्रीणाम्, नेत्राणि भृङ्गतां यान्ति । सुगन्धिनि मन्दारदाम्नीव सौरभ्याकृष्टा भृङ्गा इव तवाऽङ्गे तादृशे तासां नेत्राणि पतन्तीति तानि भृङ्गतां प्राप्नुवन्तीत्यर्थः । यद्वा तवाङ्गे तादृशे मन्दारदामवन्नित्यं भृङ्गतां यान्तीत्यन्वयः । यथा मन्दारदामन सौरभ्याकृष्टा भृङ्गा इव सुरयोषितां नेत्राणि पतन्ति भृङ्गतां यान्ति, तथाऽवासित सुगन्धिति
1
Jain Education International 2010_dor Private & Personal Use Only
www.jainelibrary.org