________________
कीर्तिकलाव्याख्याविभूषितः
-
-
श्रीति-श्रीहेमचन्द्रप्रभवात्-श्रीहेमचन्द्रकीर्तितात् , . इतः= प्रस्तुतात् , वीतरागस्तवात् कुमारपालभूपालः, उपलक्षणादन्योऽपि, ईप्सितम्=इच्छाविषयं सम्यक्त्वादिरूपम् , फलमाप्नोतु । ईप्सितफलप्रातिरस्मात्स्तवादिति स्तुतिमाहात्म्यमपि भङ्गयोक्तम् ॥९॥
इति श्रीकीर्तिचन्द्रविजयगणिविरचितायां श्रीवीतरागस्तवकीर्तिकलाख्यायां व्याख्यायां प्रथमः प्रकाशः ॥१॥
द्वितीयः प्रकाशः परात्मेत्यादिवर्णितमतिशयवर्णनेन समर्थयन् सहजातिशयान्. विवर्णयिषु वर्णाऽतिशयमाहप्रियङ्गुस्फटिकस्वर्णपद्मरागाऽञ्जनप्रभः ।
प्रभो! तवाऽधौतशुचिः कायः कमिव नाऽऽक्षिपेत् ॥१॥ प्रियेति-प्रभो !, तव, प्रियङ्गुस्फटिकस्वर्णपद्मरागाऽञ्जनप्रभा प्रियङ्गु लताविशेषो नीलवर्णः, “ प्रियङ्गुः फलिनी फली " त्यमरः । स च स्फटिकं च, स्वर्ण च पद्मरागो रक्तमणिविशेषश्चाऽञ्जनं कजलं च, तेषां प्रभेव प्रभा यस्य, स तादृशः, प्रियङ्ग्वादिवर्ण इत्यर्थः । तव, कायः शरीरम् । चतुर्विशते जिनानामेवाऽत्र वीतरागेतिसामान्यशब्देन स्तोतुमभिलषितत्वात्तेषु चोक्तपञ्चवर्णता, नत्वेकस्यैवोक्तपञ्चवर्णतेत्यवगन्तव्यम् । यदुक्तम्-" रक्तो च पद्मप्रभवासुपूज्यौ शुक्लौ च चन्द्रप्रभपुष्पदन्तौ । कृष्णौ पुननेमिमुनी, विनीलो श्रीमल्लिपाधी कनकत्विषोऽन्ये" (अभि: चि.
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org