________________
श्रीवीतरागस्तवे प्रथमः प्रकाशः
। ननु तर्हि तत्र न प्रवर्तितव्यमेव प्रेक्षावतेति चेन्न । प्रीत्यैव प्रवृत्तिः, तथा सति तत्र स्खलितं च न दोषायेत्याह-- - तथापि श्रद्धामुग्धोऽहं नोपालभ्यः स्खलन्नपि । । विशृङ्खलापि वाग्वृत्तिः श्रद्दधानस्य शोभते ॥८॥
___ तथेति-तथाऽपि स्वासामर्थ्यसद्भावेऽपि, अहम् , श्रद्धामुग्धः श्रद्धया वीतरागे प्रीत्यतिशयेन मुग्धः साध्यासाध्यविवेकविकलः, अतः प्रवत्ते इति शेषः । प्रीत्या ह्यसाध्येऽपि प्रवर्तन्त इति भावः । ननु तर्हि तत्र स्खलितं सम्भाव्यत इति चेत्तत्राह-स्खलन्-अशक्ततया यथोचितमसम्पादयन्नपि, न, उपालभ्यः वचनीयः, तत्समर्थनायाह-श्रद्दधानस्य श्रद्धाशीलस्य, विश
खला अशक्ततया यथोचितगुम्फनरहिताऽपि, अपिना सुशृङ्खलि. तस्य तु कथैव केति सूच्यते । वाग्वृत्तिः वचनरचना, स्तुतिक्रियेतियावत् । शोभते प्रशस्यते । श्रद्धाप्रयुक्तमतादृशमपि वचो न दोषाय, वाचः प्रशस्यत्वे निन्द्यत्वे वा प्रयोक्तु र्भावस्य प्रयोजकत्वादिति भावः ॥८॥
नहि तादृशस्य स्तुति निष्फलेति स्वाभीष्टमाशासदाहश्रीहेमचन्द्रप्रभवाद्वीतरागस्तवादितः ।। कुमारपालभूपालः प्राप्नोतु फलमीप्सितम् ॥९॥
इति कलिकालसर्वज्ञश्रीहेमचद्राचार्यविरचितश्रीवीतरागस्तवे प्र. थमः प्रकाशः ॥१॥
Jain Education International 2010_For Private & Personal Use Only
www.jainelibrary.org