________________
कीर्तिकलायाख्याविभूषितः
भवो दुःखबहुलतया दुर्गमतया च कान्तारं वनमिव, तस्मिन् , जन्मनः जन्मग्रहणस्य , फलम् प्रयोजनम् । अन्यथा तु तदफलमेव स्यात् , यतः ‘काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते । एवं च मुक्त्याद्यभीष्टसाधकतया तदेव कारणे कार्योपचारात्फलमिति भावः ॥६॥
अप्रमत्ततया स्वस्याऽल्पज्ञतां सम्भाव्य तादृशभुवनाद्भुतगुमाऽतिशयादिविशिष्टस्य वीतरागस्य स्तुतावशक्तिमाह - क्वाऽहं पशोरपि पशु वीतरागस्तवः क्व च । उत्तितीपुररण्यानी पद्भ्यां पङ्गुरिवाऽस्म्यतः ॥७॥
क्वेति-अहम्=अल्पज्ञानादिमत्तयाऽल्पसामर्थ्यो जनः, पशोः= पशुमपेक्ष्याऽपि, अपिनाऽन्याऽपेक्षया तु कथैव केति सूच्यते । पशुः जडतमतया पशुरिव । नितरामज्ञ इति यावत् । क्व कुत्र, चा पुनरर्थे, वीतरागस्तवः क्व ?, द्वयोर्महदन्तरमित्यर्थः । सरागस्तु समानगुणतया कथञ्चित्स्तोतुं शक्यतेऽपि, अयं तु वीतराग इति भावाभाववत्सरागवीतरागयोरसाध्यमन्तरमिति भावः । असामर्थ्य प्रयोजकवैकल्यसामन्यात्स्वं पुनरुपमिन्वन्नाह-अतः तादृशान्तरसद्भावाद्धेतोः, अरण्यानीम् महदरण्यम् , पद्याम् , उत्तितीर्घः पारं जिगमिषुः, पङ्गुः पादविकल इवाऽस्मि । येन साध्यं साधनीयम्', तस्यैव विकलतेति स्वस्य नितरामसामर्थ्यवर्णनेनाऽऽर्जवातिशयः सूचितः ॥७॥
Jain Education International 2010_030r Private & Personal Use Only
www.jainelibrary.org