________________
श्रीवीतरागस्तबे प्रथमः प्रकाशः
कृतार्थत्वसम्भवानाऽपीति भावः । तथा-, प्रावर्तन्त यतो विद्याःपुरुषार्थप्रसाधिका स्ततः कृतार्थो भूयासमि' त्येवमपि सम्बन्धः । स्वस्य मुक्त्याद्यर्थितया मुक्त्यादिमार्गप्रदर्शकादेव कृतार्थत्वलाभसम्भवादिति साभिप्रायमुक्तिरिति बोव्यम् । अनेन भङ्गया स्पृहाफलमर्पि प्रतिपादितम् । तथा-तस्य-तादृशस्यैव, किङ्करः-सेवकः, भवेयम् । यतः कृतार्थता, तस्यैव दास्यमुचितमिति भावः । तथा-' यस्य ज्ञानं भवद्भाविभूतभावाऽवभासकृत् , तस्य किङ्करो भवेयमि' त्यन्वयः । प्रसन्नो हि स एव सर्वज्ञतया किङ्कराभीष्टं साधितुं समर्थः । अतादृशस्तदभिप्रायाज्ञः स्वयं चाऽसिद्ध इति तस्य कैङ्कयं तन्मात्रम् , नतु स्वेष्टसिद्धिरपीति भावः ॥५॥
कायमनोयोगविषयत्वमभिधाय वाग्योगविषयत्वमाहतत्र स्तोत्रेण कुर्या च पवित्रां स्वां सरस्वतीम् । इदं हि भवकान्तारे जन्मिनां जन्मनः फलम् ॥६॥ ___ तत्रेति-तत्र-तस्मिन् वीतराग एव, स्तोत्रेण तद्गुणकीर्तनेन कृत्वा, स्वाम्=निजाम् , सरस्वतीम् वाणीम् , “गीवीग्वाणी सरस्वती' त्यमरः । पवित्राम् शुचिशरीराम् , कुर्याम्=विदधामि । पवित्रार्थप्रतिपादनेनैव वाचः पवित्रता, पवित्रश्च नाऽतादृश इति भावः । तदेतत्सर्व श्रद्धादि किमर्थमित्यपेक्षायामाह-हि-यतः, इदम् उक्तगुणविशिष्टस्य वीतरागस्य श्रद्धाधारभ्य स्तुत्यन्तम् , जन्मिनाम् = प्राणिनाम् , 'प्राणी तु चेतनो जन्मी ' त्यमरः । भवकान्तारे
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org