________________
कीर्तिकलाच्याख्याविभूषितः
.. ततः कृतार्थो भूयासं भवेयं तस्य किङ्करः ॥५॥
तेनेति - तेन-उक्तगुणगणगुरुणा वीतरागेण, नाथवान्= नाथो योगक्षेमकृत् , योगक्षेमकृन्नाथ' इतिवचनात् । सोऽस्त्यस्येति, तादृशः, स्याम् भवामि, स एव मम स्वामीति यावत् । सर्वोऽपि ह्यलौकिकगुणमेव स्वामिनमिच्छति, तत एवेष्टसिद्धेः सम्भावितत्वात् । नातः परश्वापरो विशिष्टगुण इति तेनैव नाथवान् स्यामिति भावः । तथा 'येन क्लेशपादपा उदमूल्यन्त, तेन नाथवान् स्यामि' त्येवमन्वयः । यो हि स्वयं क्लिष्टः, स स्वस्यैव नाथं कमपीच्छति, स किमन्यस्य नाथो भवतु, तं वा को नाथं मन्यताम् ? । स्वयमक्लेशश्च परानप्यक्लेशान् कत्तुं सम्भाव्यते इति तेन नाथवान् स्यामिति सहेतुकोक्तिश्चमत्कारविशेषलाभाय । अत एव च तस्मै तादृशाय वीतरागाय, समाहितः तदेकाग्रमनाः सन् , स्पृहयेयम्-उत्कटामिलापवान् स्याम् , अन्यत्र स्पृहा त्वपकृष्टविषयतयाऽपकृष्टेति सा नेष्टोत्तमानामिति मावः । तथा 'यस्मै सुरासुरनरेश्वरा नमस्यन्ति. तस्मै स्पृहयेयमि' त्येवमन्वयः । यस्मै सर्वे नमस्करणादिना स्पृहावन्तस्तस्मा एवाऽहमपि तथेत्यर्थः । स्पृहाविषयत्वेन तस्य सिद्धत्वात् । स्वतन्त्रतया कस्मा अपि स्पृहणेऽनिष्टस्याऽपि सम्भवादिति लोकानुसरणमेव वरमितिभावः । तथा, तत: वीतरागादेव, कृतार्थः सिद्धप्रयोज नः, भूयासम् भवानि, अतादृशास्तु स्वयमकृतार्था इति कुतस्ततः स्वस्थ
Jain Education International 2010_03r Private & Personal Use Only
www.jainelibrary.org