________________
श्रीवीतरगस्तवे प्रथमः प्रकाशः
भावः । किञ्च " नित्यं विज्ञानमानन्दं ब्रह्मे" ति यदुच्यतेऽन्यैः, सोऽयमेवेति ध्वनिः । यतश्च तादृशः अतः, सः स्यादिसप्तविभक्त्येकवचनान्तयच्छब्देनोद्दिष्टः, एवमग्रेऽपि तच्छब्देन बोध्यम् । श्रद्धेयः सादरविश्वासं रुचिविषयीकरणीयः, स च स एव; ध्येयः-चिन्तनीयः, ध्यानविषयीकरणीय इति यावत् । अतादृशस्याऽपकृष्टतयाऽतदर्हत्वादिति भावः । तथा, तं च-तमेव, शरणम्-रक्षकम् , 'शरणं गृहरक्षित्रो । रित्यमरः । प्रपद्ये-स्वीकरोमि, आश्रयामि वा । समर्थो हि शरणम् , उक्तप्रकारगुणविशिष्टश्च न कदाप्यसमर्थः । एवञ्चाऽतादृशो न शरणम् , स्वयमसमर्थस्य परसाधनासमर्थत्वादिति भावः । अत्र च 'यः परात्मा परंज्योतिः परमः परमेष्ठिनां, स श्रद्धेयः स च ध्येयः, आदित्यवर्ण तमसः परस्तादामनन्ति यं तं शरणं प्रपद्ये' इत्येवमुद्देश्यप्रतिनिर्देश्ययोः क्रमेणाऽप्यन्वयः । ततश्च यः परात्मत्वादिगुणविशिष्टः स एव श्रद्धेयो ध्येयश्च । अपरात्मादिस्तु किञ्चित्तारतम्यसत्त्वेऽपि न श्रद्धाध्यानास्पदम् । अपकृष्टस्य ध्यानादिनोत्कृष्टफललाभाऽयोगात् । तथा न स्वयं तमोग्रस्तः शरणम् , नहि स्वोद्धाराऽसमर्थः परोद्धारणक्षम इति तमोऽतीतमेव शरणं प्रपद्ये, स्वस्याऽपि तमोऽतीतत्वलाभायेति विच्छित्तिविशेषोऽवगम्यते ॥४॥
। अत एव च - तेन स्यां नाथवांस्तस्मै स्पृहयेयं समाहितः ।
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org