________________
कीर्तिकलाव्याख्याविभूषितः
अभूवन्, उदभूवन् वा । आदितीर्थनाथस्य सर्वविद्याप्रवर्तक-त्वस्य प्रसिद्धत्वादन्येषामप्यर्हतां मोक्षोपदेशकत्वस्य गीतत्वाच्चेति भावः । एवं च तन्नमस्करणात्तादृशविद्यालाभोऽयत्नसिद्धमानुषङ्गिकं प्रयोजनमित्याकूतम् । तादृशविद्याप्रवृत्तिहेतुभूतं विशेषणमाह-यस्य = उक्तगुणविशिष्टस्य, ज्ञानम् - केवलज्ञानम्, तत्राऽन्यस्यासन्त्वादिति भावः । भवद्भाविभूतभावाऽवभासकृत् - भवन्तो वर्त्तमानाश्च भावि नश्च भूता अतीतश्च ये भावा: पदार्थास्तेषामवभासं विषयीकरणद्वारेण परिच्छेदं प्रकाशं वा करोतीति तादृशम् । अस्तीति शेषः । त्रैकालिकपदार्थपरिच्छेदकमित्यर्थः । यश्च सर्वभाववित्तत एव सर्वविद्याप्रवृत्तिरनुगुणेति भावः । परंज्योतिरित्यनेन तादृशज्ञानवत्वेन अत्र तु तज्ज्ञानगुणकीर्त्तनेन स्तव इति न पुनरुक्तिः ॥३॥
तदेवं व्यवहारनयेन गुणगुणिनो र्भेदमाश्रित्य स्तुत्वा सङ्ग्रहनयेन तयोरभेदमाश्रित्य स्तुवन्नाह -
यस्मिन् विज्ञानमानन्दं ब्रह्म चैकात्मतां गतम् । स श्रद्धेयः स च ध्येयः प्रपद्ये शरणं च तम् ॥४॥
यस्मिन्निति-यस्मिन्=यत्प्रकारे वीतरागे, विज्ञानम् - अनन्ततया विशिष्टं ज्ञानम्, आनन्दम् - अखण्डशाश्वतसुखम् ब्रह्म = सर्वज्ञत्वाद्वयापकात्मा, चः समुच्चये । एकात्मताम् = तादात्म्यम्, गतम् = प्राप्तम्, परिणामपरिणामिनो: सङ्ग्रहनये कथञ्चिदभेदस्वीकारादिति
Jain Education International 2010_dor Private & Personal Use Only
www.jainelibrary.org