SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ श्रीपीतरगस्तवे प्रथमः प्रकाशः - - सर्वे इति-येन = परात्मत्वादिगुणविशिष्टेन वीतरागेण, समूला:-मूलसहिताः, यथा न पुनरुत्पत्तिः स्यात्तथेत्यर्थः । मूलसत्त्वे पुनः प्ररोहसम्भवादिति भावः । सर्वे निःशेषाः, न तु कतिपये एव, तेषामपरात्मनाऽप्युन्मूलनसम्भवादिति भावः । क्लेशपादपा:-क्लेशा रागादयः पादपा नानाशाखत्वाच्छाखाविच्छेदेऽप्यनाशाच्च वृक्षा इव, ते । उदमूल्यन्त = उदपाट्यन्त, नाशिता इत्यर्थ । नहि समूलक्लेशपादपोन्मूलनं परात्मत्वादिगुणं विना सम्भवतीति भावः । यतश्चोक्तसकलगुणविशिष्टः, अतः, यस्मै उक्तगुणविशिष्टाय, सुरासुरनरेश्वराः-सुराश्चासुराश्च नराश्च तथा तेषामेवेश्वराः पतयश्च, ते सुरादयः सर्वे । भूना भक्त्यतिशयप्रवीभूतत्वाच्छिरसा, नतूपचारनिर्वाहाथ हस्तसंयोजनमात्रेण । नमस्यन्ति-प्रणमन्ति, पूजयन्ति च । नातादृशः सुरादिभिर्नमस्य इति भावः ॥२॥ यद्यपि सुरादिकृतो नमस्कारो गुणानुरागादेव, तथापि क्लेशोन्मूलनस्य, न महतो भक्तिर्मोघेति च-फलमाह प्रावर्तन्त यतो विद्याः पुरुषार्थप्रसाधिकाः । यस्य ज्ञानं भवद्भाविभूतभावाऽवभासकृत् ॥३॥ प्रेति-यतः उक्तगुणविशिष्टाद्वीतरागात् , पुरुषार्थप्रसाधिकाः पुरुषार्थानां धर्मार्थकाममोक्षाणां प्रसाधिकाः मार्गदर्शकतया सम्पादिकाः, विद्याः-शिल्पादिमोक्षान्तशास्त्राणि, प्रावर्तन्त-प्रकाशिता Jain Education International 2010_Bor Private & Personal Use Only www.jainelibrary.org
SR No.002579
Book TitleKirtikala
Original Sutra AuthorHemchandracharya
AuthorMunichandrasuri
PublisherSha Bhailal Ambalal Petladwala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy