________________
कीर्तिकलाव्याल्याविभूषितः
नाऽपरं प्रकाशकमिति- तत्परमेव भवति । अथ च-परं वस्तुयाथाल्योपदर्शकतया प्रमाणम् , ज्योति दृष्टिरिव स्याद्वादाख्यदर्शनं प्रतिपाद्यतया यस्य स तादृशः । “ज्योति भेद्योतदृष्टिष्वि" त्यमरः । उक्तञ्च-" चक्षुष्मन्तस्त एवेह ये श्रुतज्ञानचक्षुषा । सम्यक् सदैव पश्यन्ति भावान् हेयेतरान्नराः" ॥२॥ इति । परमिति मान्तमव्ययम् । यद्वा परज्योतिरित्येव परात्मेत्यानुगुण्यात्पाठः । अत एव, तमसः वस्तुस्वरूपाऽऽलोकाऽन्तरायरूपल्वात्तमोऽज्ञानम् , पक्षेऽन्धकारश्च । तदपेक्ष्य, ततो वा, परस्तात् = अतीतम् , दूरवर्तिनमित्यर्थः । सर्वथैवाज्ञानस्याऽन्धकारस्य च विनाशकताया इति भावः । यम्बीतरागम् । आदित्यवर्णम् आदित्यः सूर्यः, स इव वर्ण्यते इति स, तादृशः, तम् । आमनन्ति=पुनः पुनः प्रतिपादयन्ति । तज्ज्ञा इति शेषः । यथाऽऽदित्यस्तमोनाशनस्तथाऽयमपीति शब्दसाम्यादुपमा । अत्र सार्धश्लोकत्रयं यावदुक्तानां यत्पदानामग्रेतनतत्पदेन सम्बन्धः । अनुष्टुप्छन्दः । अत्र च यत्पदवृत्तस्य 'य' इत्यादेस्तत्पदवृत्तेन 'स' इत्यादिनाऽपि यथाक्रममन्वयः पुरस्ताप्रतिपादयिष्यते ॥१॥
परात्मत्वादिधर्माऽविनाभाविगुणान् वर्णयन्नाहसर्वे येनोदमूल्यन्त समूलाः क्लेशपादपाः । मूनी यस्मै नमस्यन्ति सुरासुरनरेश्वराः ॥२॥
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org