SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ श्रीवीतरागस्तवे प्रथमः प्रकाशः me तादृशविप्रतिपत्तिव्यपोहमनसा भव्यान् विनिनीषु भक्तिप्रबहृदयतया भङ्गया श्रद्धेयादिविवेकपूर्वकं स्वं कृतार्थ करिष्यन् कलिकालसर्वज्ञः श्रीहेमचन्द्राचार्यों वीतरागस्तवमुपक्रमते यः परात्मा परंज्योतिः परमः परमेष्ठिनाम् । आदित्यवर्ण तमसः परस्तादामनन्ति यम् ॥१॥ य इति--यः = स्तुतिविषयो वीतरागः, परात्मा = परः परमः, अन्यविलक्षणसहजाऽतिशयादिमत्वात्सर्वोत्कृष्ट इत्यर्थः । स तादृश आत्मा स्वरूपं यस्य, स तादृशः । अत एव, परमेष्ठिनाम् परमे परमभावे तिष्ठन्तीति तेऽर्हत्सिद्धाचार्योपाध्यायसाधवः, तेषाम् । परमः = पराऽलौकिकीतरविलक्षणा च मा लक्ष्मीः क्षायिकादिसमृद्धि यस्य स, तादृशः, श्रेष्ठश्च । लोकयोगक्षेमविधायित्वादिना तस्यैव परमत्वव्यवहारादिति भावः । अत एव तेषु तस्य प्राथम्येन कीर्तनम् । उक्तञ्च-" रागादिभिरनाक्रान्तो योगक्षेमविधायकः । नित्यं प्रसत्तिपात्रं यस्तं देवं मुनयो विदुः” ॥१॥ इति । तथा, परंज्योतिः परं सर्वतः प्रसारि ज्योतिरिव प्रकाशकत्वाज्ज्योतिर्यस्य सः, सर्वोकृष्टप्रकाशात्मक इत्यर्थः । केवलज्ञानाद्यात्मकज्योतिष्मानिति यावत् । सूर्यादिज्योति हि लोककतिपयप्रदेशप्रकाशकं वर्तमानस्यैव च वस्तुनो बहि:स्वरूपमात्रप्रकाशकं च । इदं तु केवलाख्यं ज्योति लोंकालोकप्रकाशक त्रिकालवर्त्तिनश्च वस्तुनोऽन्तर्बहिश्च प्रकाशकम् । अतः परं च Jain Education International 2010_Bor Private & Personal Use Only www.jainelibrary.org
SR No.002579
Book TitleKirtikala
Original Sutra AuthorHemchandracharya
AuthorMunichandrasuri
PublisherSha Bhailal Ambalal Petladwala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy