SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ॥ अहेम् ॥ श्रीनेमि-विज्ञान-कस्तूरसूरिसद्गुरुभ्यो नमः । कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितः श्रीवीतरागस्तवः । कीर्तिकलान्याख्याविभूषितः । प्रथमः प्रकाशः । ध्यात्वा जिनान् गुरून् नत्वा कीर्तिचन्द्रोऽहमादरात् । वीतरागस्तवव्याख्यां कुर्वे कीर्तिकलाऽभिधाम् ॥१॥ . अथेह दुःखत्रयत्रासाच्छरीरिणामेकान्ततोऽत्यन्ततश्च त्राणमवश्यमेवैषणीयम् । तच्च नर्ते मुक्तेरिति सा चतुर्थपुरुषार्थरूपा प्रार्थनीया समर्थैरुपायैः । तदुपायभूते च ज्ञानचारित्रे शास्त्रे प्रतिपादिते तज्ज्ञैः । तत्र भक्तिमृत इतरः प्रकारोऽप्रखरमतीनां सुकुमारतनूनामतिप्रयस्याऽपि दुःसाध्य इति सा विशेषत इह दु:षमारे सार्वजनीना विजयते । तस्याश्च श्रद्धा-ध्यान-शरणप्रपत्ति-भजनीयस्वामित्वभावना- स्पृहा-कृतार्थत्वभावना-स्वीयकैङ्कर्यभावना-स्तुतयो मुख्यान्यङ्गानि । लोके च रुचिवैचिच्याद्विविधैः प्रकारै नैंकविधा भजनीया इति सरलमतीनां विप्रतिपत्तिः 'को नाम श्रद्धादिपात्रम् ?' । अतदहें एहणाविधिरफला प्रयासमात्रफलैवेति Jain Education International 2010_Bor Private & Personal Use Only www.jainelibrary.org
SR No.002579
Book TitleKirtikala
Original Sutra AuthorHemchandracharya
AuthorMunichandrasuri
PublisherSha Bhailal Ambalal Petladwala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy