________________
कीर्तिकलाव्याख्याविभूषितः
१७३
ऽन्तभावात् । त्वत्कृतः स्वत्वेन मदङ्गीकार एव मदीयप्रार्थिताऽप्रार्थितसकलेष्टसिद्धिद्वारमिति भावः । नाऽतःपरं ब्रुवे इत्युक्त्या च भङ्गया स्तुतिसमाप्तिरपि सूचिता बोध्या ॥ ८ ॥
भक्तिभरनिभृतान्त:करणेन कृतस्याऽस्य वीतरागस्तवस्य 'नहि महतां स्तुति निष्फले' ति फलाऽवश्यम्भावात्तत्फलमाक्त्वेनाऽनुग्राह्यं कुमारपालमभिनन्दन् भङ्गया तत्फलमप्याह
श्रीहेमचन्द्रप्रभवाद्वीतरागस्तवादितः । कुमारपालभूपालः प्राप्नोतु फलमीप्सितम् ॥९॥
इति कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितश्रीवीतरागस्तवे विंशतितमः प्रकाशः ॥२०॥ समाप्तश्चाऽयं श्रीवीतरागस्तवः ॥
श्रीति-व्याख्यातपूर्वमिदं पद्यम् ॥९॥
इति श्रीकीर्तिचन्द्रविजयगणिविरचितायां श्रीवीतरागस्तवकीर्तिकलाख्यां व्याख्यायां विंशतितमः प्रकाशः ॥ २० ॥
॥ समाप्ता च श्रीवीतरागस्तवकीर्तिकला ॥
प्रशस्तिः स्वच्छतपोगच्छाऽम्बरमणिरसमः शमशुधानिधिर्धारः ।। तीर्थोद्धारकरो यः शासनसम्राडभूत्स नेमिरिह ॥१॥ तत्पट्टालङ्कारः समयज्ञः शान्तमूर्तिरपि गीतः ।। प्रगुरुः श्रीविज्ञानो गुणवल्लिवितानपादपः प्रांशुः ॥२॥
-
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org