________________
१७२
श्रीवीतरागस्तवे विंशतितमः प्रकाशः
ननु याचकस्येष्टसिद्धिर्न याञ्चामात्रतः, किन्तु स्वामिनो दातुरनुकूलतया, किश्च पृथक्पृथङ्नानायाचनायां दातुरुद्वेगोऽपि सम्भाव्यते । बहुयाचकश्चाऽसन्तुष्टोऽयमित्येवं विगोप्यते च, तदेतत्सर्वमनुसन्धाय सर्वेष्टसिद्धिमूलं स्वामिकृतं स्वस्य दासत्वेन स्वीकारमेकमेव याचमानः स्तुतिमुपसंहरति--
तव प्रेष्योऽस्मि दासोऽस्मि सेवकोऽस्म्यस्मि किङ्करः । ओमिति प्रतिपद्यस्व नाथ ! नाऽतः परं ब्रुवे ॥८॥
तवेति-नाथ ! स्वामिन् !, अहमित्याल्लभ्यते । तव वीतरागस्य स्वामिनः, एवकारार्थः प्रस्तावाल्लभ्यः । प्रेष्यः कार्यार्थ प्रेषणामर्हतीति सः, प्रेषयितुं योग्य इति वा । अस्मि, दासः-क्रयक्रीतोभृत्यः, अस्मि, सेवकः परिचारकः, अस्मि, तथा, किङ्करः = किं यत्किञ्चिदपि स्वामिनाऽऽर्दिष्ट करोतीति स तादृशः, अस्मि । अस्मीति पुनः पुनरुक्तियेन केनाऽपि प्रकारेण त्वमेव मम स्वाम्यहं च तव स्वमिति स्वाभिप्रायद्योतनाय । न त्वं मम स्वामी' ति मदीयकथनमात्रं पर्याप्तम् , किन्तु स्वामिनस्तथा स्वीकारोऽपीत्यत आह-ओम् = एवमेतत् , इति =एवम्प्रकारेण, प्रतिपद्यस्वस्वीकुरु । त्वं मम स्वमित्येवं स्वीकुर्वित्यर्थः । तावतैव हि मम सर्वेष्टलाभः । सर्वो हि स्वामी स्वं रक्षत्येवेति भावः । अत एव, अतः उक्तायाः, वचसः, परम्=अधिकम् , न-नैव, ब्रुवेवच्मि, प्रयोजनाभावाद्वक्तव्यस्याऽनवशिष्टत्वात्सर्वस्यैवेष्टस्य तत्रैवा
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org