________________
प्रशस्तिः
तत्प प्राकृतविद्विशारदः शारदेन्दुशुचिकीर्तिः । 'श्रीस्तूरः सुगुरुः सिद्धान्तमहोदधिः ख्यातः ॥३॥ तच्छिण्याऽन्यतमोऽहं श्रीकीर्तिचन्द्रविजयगणिनाम्ना । तन्नियाजदयायाः पात्रं शास्त्रेषु लब्धमतिः ॥ ४ ॥ स्वाध्यायतत्पराणां श्रीवीतरागस्तवस्य ललितस्य ।। बोधसौकर्यहेतो य॑धां कीर्तिकलाख्यां व्याख्याम् ॥४॥ विनयी मे स विनेयो मुनिचन्द्रोऽभिख्यया च गुणतश्च । सन्मतिमेतु यतोऽस्याऽभ्यर्थनयाऽत्र प्रवृत्तोऽहम् ॥६॥ विवुधै विवृतः सैषोऽनेकैरनल्पकीर्तिकलितैस्तदपि । तेषामिव न कदाचित्पर्यनुयोज्यः प्रयासो मे . ॥ ७ ॥ परतो ननु चन्द्रस्याऽमला कला शुदि विलक्षणा च यथा । कीर्तिकलाऽस्य ममैषा स्तवस्य वृत्तिषु सदा भायात् ॥८॥ मोदकरी यदि चैषा गुणगृह्याणां प्रसन्नवदनानाम् । किमपीहाऽऽप्य कथञ्चित् सन्तुष्यतु कृष्णतुण्डोऽपि ॥८॥ बाणेन्द्वम्बरनेत्रे वैक्रमवर्षे वसन्तपञ्चम्याम् । सैषा समाप्तिमाप्ता जिनवरिवस्याऽस्तु मे भक्त्या ॥१०॥
॥ श्रीरस्तु ॥ शुभं भवतु ॥
साधना-मुद्रणालय 66-1. 5 वाँ मेन रोड, गान्धीनगर, बेंगलोर-9
Jain Education International 2010_For Private & Personal Use Only
www.jainelibrary.org