________________
१३०
श्रीवीतरागस्तवे पञ्चदशः प्रकाशः
नमज्ञानादेव सम्भवति । ततश्च तयोस्तथागणनं गणयितुर - ज्ञानं यथा प्रकटयति, तथा सर्वगरिष्ठस्य तवाऽपावादोऽप्यपवदितुः पापत्वं व्यनक्ति, पूज्योपचारातीचारस्य पापजनकत्वादिति यथा तृणवद्गुणनेऽपि मेरुर्मेरुरेव, गोष्पदवद्गुणनेऽपि च सागर : सागर एव, नहिं तयोः काऽपि हानि, प्रत्युत तथागणयितुरेव लाघवं जायतेऽज्ञानानुषङ्गात् । तथा तवाऽपवादेऽपि भवान् नाऽपोदितो भवति, किन्त्वपवदितैव पाप्मना ग्रस्यते इति धिगसमीक्ष्यकारिणमिति भावः । भवान्निरपवादः सर्वथेति हृदयम् ॥ २ ॥
भवदपवादकाश्च भवच्छासनवञ्चिता एवेति महती हानिदौर्भाग्यं च तेषामित्याह --
च्युतश्चिन्तामणिः पाणेस्तेषां लब्धा सुधा मुधा । यैस्त्वच्छासनसर्वस्वमज्ञानैनात्मसात्कृतम् ॥ ३ ॥
---
"
च्युतइति —— भगवन् !, यैः, अज्ञानैः = जडैः, उपादेयस्य त्यागो हि जाड्याविनाभावीति भावः । त्वच्छासनसर्वस्वम् = त्वच्छासनमेव दुर्लभत्वात्सुगतिप्रदत्वाच्च सर्वस्वम् सारभूतं धनम्, परमकारुणिकेन त्वयाऽविशेषेण प्रदानात्सुलभमपि, न, आत्मसात्कृतम्=उररीकृतम्, गृहीतमित्यर्थः । स्वाधीनं कृतमिति यावत् । त्वदाज्ञा न स्वीकृतेति सारार्थः । तेषाम् = तादृशानां त्वच्छासनवञ्चितानाम्, चिन्तामणिः - चिन्तामात्रेण चिन्तामणिवत्सकलमुक्तत्याद्यभीष्टप्रदत्वसाधर्म्य तदाख्यमणिविशेष एव पाणेः = करात् । च्युतः पतितः ।
Jain Education International 2010_dor Private & Personal Use Only
www.jainelibrary.org