SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १२८ श्रीवीतरागस्तवे पञ्चदशः प्रकाश: स ध्यानमपि, ध्यानस्य ज्ञानविशेषत्वादिति त्रयमेकात्मतां गतः मिति भावः । इति उक्तत्रयैकाम्यरूपम् , ते, योगमाहात्म्यम् = समाध्युत्कर्षः, परी अन्यतीर्थि कैस्तथासमाधिशून्यैः, कथम् केन प्रकारेण, श्रद्धीयताम् एतत्तथेत्येवं रुचिविषयीक्रियताम् ?, अपि तु न कथमपि, स्वस्य तदभावादित्यर्थः । निजोपलब्धमेव लोकः श्रद्दधातीति भावः । भगवानेव परसमाधिमान्नान्य इति हृदयम् ॥८॥ इति श्रीकीर्तिचन्द्रविजयगणिविरचितायां श्रीवीतरागस्तवकीर्तिकलाख्यायां व्याख्यायां चतुर्दशः प्रकाशः ॥१४॥ पञ्चदशः प्रकाशः भगवतो गुणानां प्रत्येकं जगज्जेतृत्वमाहजगज्जैत्रा गुणास्त्रातरन्ये तावत्तवाऽऽसताम् । उदात्तशान्तया जिग्ये मुद्रयैव जगत्त्रयी ॥१॥ जगदिति–त्रातः सन्मार्गप्रदर्शनादिना रक्षक !, तव, अन्ये, जगज्जैत्राः जगतां सर्वेषां जैत्रा जयनशीलाः, भगवद्गणानामन्यगुणतोऽत्युत्कृष्टत्वादिति भावः । गुणा: पूर्ववर्णिता अति. शयादयो विशेषणविशेषाः, तावदासताम्-न साम्प्रतं तेषामिहो. द्धाटनमपेक्षितमिति तथैव तिष्ठन्तु, यावता, उदात्तशान्तया Jain Education International 2010_Bor Private & Personal Use Only www.jainelibrary.org
SR No.002579
Book TitleKirtikala
Original Sutra AuthorHemchandracharya
AuthorMunichandrasuri
PublisherSha Bhailal Ambalal Petladwala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy