________________
कीर्तिकलाव्याच्याविभूमि
समाधौ ध्यानकतानतायाम् , अध्यात्मल्ये इत्यर्थः । तथा तेम प्रकारेण, विनिवेशितः = स्थिरीकृतः, यथा = येन प्रकारेण, सुखी, दुःखी, अस्मि, नास्मि, इति एवं प्रकारेण विविक्तं किञ्चिदपि, न, प्रतिपनवान-ज्ञातवान् , समाधिस्थस्य तव निजामसत्ताऽपि लयं गच्छतीति तव समाधिरप्यलौकिको निर्विकल्पश्च । अन्येषां हि न तथेति भावः ॥ ७ ॥
समाधे वैशिष्टयवर्णनेन निर्विकल्पत्वं समर्थयतिध्याता ध्येयं तथा ध्यानं त्रयमेकात्मतां गतम् । इति ते योगमाहात्म्यं कथं श्रद्धीयतां परैः ॥८॥
इति कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितश्रीवीतरागस्तवे चतुर्दशः प्रकाशः ॥ १४ ॥
___ ध्यातेति-भगवन् !, त्वत्समाधाविति प्रकरणाल्लभ्यते, ध्याताक्षपकश्रेण्यारूढः, ध्येयम् = ध्यानविषयोऽर्हत्स्वरूपम् , तथा, ध्यानम्-ध्येयविषये तदेकतानता, इत्येतत् , त्रयम्-ध्यातृध्येयध्यानानि, एकात्मताम्=तादात्म्यम् , गतम् प्राप्तम् , निर्विकल्पके हि समाधौ न कोऽपि विकल्प इति तत्र ध्यातुर्येयस्य ध्यानस्य वा न विवेकेन भानसम्भव इति तत्र त्रयं तदात्म्यापन्नमेव भवति, अन्यथा विकल्पापत्तेः । एवञ्च कथं तत्राऽऽत्मसत्ताऽपि ज्ञायतामिति सुष्ठूक्तम् “न प्रतिपन्नवानि" ति । यद्वा-केवली शुक्लध्यानवानेव ध्याता, स एव चाऽन्येषां ध्येयः, ज्ञानतादास्याच्च
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org