________________
१२४
भीवीतरागस्तवे चतुर्दशः प्रकाशः
स्तीति भावः । तव भगवतो वीतरागस्य, सात्म्यम्=तादात्म्यम् , आत्मपरिणामत्वमिति यावत् , उपेयिवान् = प्राप्तवान् । भगवान् हि जन्मत एव योगी, यदि हि परोक्तो योगो नाऽलीकप्रपञ्चस्तर्हि तन्नोपपद्येत । यमनियमाद्यनुष्ठानस्य जातमात्रेऽसम्भवात् । संवर इन्द्रियाणामल्पप्रवृत्तिश्च बालतोऽपि ज्ञानिनः सम्भवत्येवेति परोक्तो योगप्रपञ्चोऽलीक एव । भगवदाश्रितमार्ग एव श्रेयानिति न भग. वतः परो योगीति भावः ॥३॥
योगश्च भगवतोऽलौकिको गुण इत्याहविषयेषु विरागस्ते चिरं सहचरेष्वपि । योगे सात्म्यमदृष्टेऽपि स्वामिनिदमलौकिकम् ॥४॥
विषयेष्विति-स्वामिन्! ते तव वीतरागस्य, चिरम् = अनेकप्राग्भवान् यावत् , इह भवे तु न, जन्मत एव योगसत्त्वात् । सहचरेषु-सार्धमवस्थितेषु प्रत्यक्षमुपलभ्यमानेषु, देहिनां हि शब्दादयो विषयाः सहैव तिष्ठन्ति, तत्राऽऽसक्तिस्तु स्यानवेत्यन्यदेतत् । एवञ्चेह जन्मन्यपि विषयाणां भगवत्सहचरतया प्रतिपादने न दोषः, भवस्थतां यावत्तत्साहचर्यस्याऽनिवायंत्वात । नहि साहचर्य भोगोपभोगौ । अत एवोत्तरार्धेत पीत्युक्तिः सङ्गतिमावहति । दृष्टेषु विरागोऽदृष्टेषु सात्म्यमित्याश. यात् । अथवोपभुक्ततया सहचरवस्थितेष्वित्यर्थः । अपिना सहचरे विरागासम्भवो द्योत्यते । साहचर्यस्य रागप्रयोजकत्वा
Jain Education International 2010_For Private & Personal Use Only
www.jainelibrary.org