________________
कीर्तिकळाव्याख्याविभूषितः
१२५
दिति बोध्यम् । विषयेषु = शब्दादिषु, विरागः = पराङ्मुखता, तथा, अदृष्टे = आत्मधर्मत्वादप्रत्यक्षे, पूर्वजन्मन्यनुपलब्धतयाऽसहचरे वा, योगे - इन्द्रियमनोजयरूपे योगे, सात्म्यम् = तादात्म्यमूला परमासक्तिः, इति, इदम् = दृष्टे विरागोऽदृष्टे सात्म्यं च, अलौकिकम् = लोकोत्तरम्, लोके ह्रदृष्टे विरागोऽनिच्छारूपो दृष्टे च रागो दृष्टः, तव तु तद्विरुद्धमित्यतोऽलौकिकमिदमित्यर्थः । ईदृशं वैशिष्ट्यं भवत्येव नाऽन्यत्रेति भावः ॥ ४ ॥ अपरमपि भगवतोऽलौकिकं गुणमाह
॥५॥
तथा परे न रज्यन्त उपकार परे परे । यथाऽपकारिणि भवानहो ! सर्वमलौकिकम् तथेति - भगवन् !, परे = अन्यतीर्थिकाः, उपकारपरे -हितकर्त्तरि, सेवके च, तथा तेन प्रकारेण, न, रज्यन्ते = स्निह्यन्ति, भवान्, यथा येन प्रकारेण, अपकारिणि = उपसर्गीदिविधानेनाहितकर्त्तरि कमठादौ, रज्यत इति वचनविपरिणामेन सम्बध्यते । अयं मम कर्मक्षयविधौ सहाय इति भवांस्तं हितकृतमेव मन्यते, इत्यतः परमा प्रीतिस्तत्र भवतः । अत एवाविशेषेण सर्वेभ्य एव हितमुपदिशति भवान् । अपकारिण्यप्रीतौ तु हितकृतमुद्दिश्यैव तथा विदध्यादिति भावः । तदेवम्, सर्वम् = भवतश्चरित्रमात्रम्, अलौकिकम्, लोकेऽन्यत्र तथाऽदर्शनादिति भावः । अहो ! = आश्चर्यजनकमेतत् । यद्ध्यश्रुताऽदृष्टपूर्वं तदद्भुतमेव
अत एव,
भवतीति भावः ॥५॥
Jain Education International 2010_dor Private & Personal Use Only
www.jainelibrary.org