________________
कीर्तिकलाच्याख्याविभूषितः
१२३
न्द्रियाणामसत्प्रवृत्तिनिरोध एव । शरीरयात्रार्थमिन्द्रियव्यापाराणामावश्यकत्वात् । सम्यग्ज्ञानी च भवानित्यतो. मव्यमोऽयं प्रकारो भवतः, ततश्चेन्द्रियजयः साध्यः । ये त्वज्ञाः सर्वथैवेन्द्रियाणां व्यापाररोधाय प्रवर्तन्ते, ते श्रेयोमूलं शरीरं वा पातयन्ति, सर्वथा निरोधाऽसम्भवाद्वेन्द्रियवशत्वमेव गच्छन्ति । अत इन्द्रियजयस्य भवदाश्रित एव प्रकार इति भावः ॥२॥ ..
इन्द्रियमनोजय एव योगः, अन्यादृशस्तु प्रपञ्चमात्रमित्याह-- योगस्याऽष्टाङ्गता नूनं प्रपञ्चः, कथमन्यथा ? । आबालभावतोऽप्येष तव सात्म्यमुपेयिवान् ॥३॥
योगस्येति-योगस्य-चित्तवृत्तिनिरोधरूपस्य, “योगश्चित्त-- वृत्तिनिरोध” इत्युक्तेरिति भावः । अष्टाङ्गता-अष्टा अष्टसंख्यकान्यङ्गानि भेदा यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधिरूपाः पातञ्जलोक्ता यस्य तद्भावः, अष्टप्रकारतेत्यर्थः । ननमित्यलीके, प्रपञ्चः-विस्तारः । योगस्याष्टप्रकारतया विस्तारोऽलीकम् , किन्तु भवदनुष्ठितेन्द्रियमनोजयप्रकार एव वास्तविको योगः । तत्र व्यतिरेकेण हेतुमाह - अन्यथा = योगस्याऽष्टाङ्गत्वस्य तत्त्वरूपत्वे, कथम्-केनप्रकारेण, एष = योगश्चित्तवृत्तिनिरोधरूपः, आबालभावतः बाल्यादारभ्यैव, अपिरेवार्थे, जन्मत एवेति यावत् । भगवतो जन्मत एव ज्ञानत्रययुक्ततया योगस्याऽपि तत एव सत्त्वात्., अन्यथा ज्ञानाऽनुपपत्तेः । नवजितेन्द्रियमनोवृत्तेज्ञानसत्त्वे मानम--
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org