________________
१२२
श्रीवीतरागस्तवे चतुर्दशः प्रकाशः
मनोव्यापारान्, आस्रवानित्यर्थः । सर्वथा = सर्वैः प्राकारैः, संहृत्य = संवृत्य, ' आस्रवनिरोधः संवर' इत्युक्तेरिति भावः । अत एव, श्लथत्वेन शिथिलत्वेन, क्रियापराङ्मुखो मन्दक्रियो वा हि शिथिल उच्यते । एवकारोऽवधारणार्थः । भवता, मनः शल्यम् = मनसः शल्यं शङकुम्, तद्वत्कष्टप्रदत्वादशुभवृत्तिम् । वियोजितम् - दूरी कृतम् । अन्योऽपि हि विद्धशल्यो निष्क्रियः शिथिलाङ्गः सन् शरीरे विद्धं शल्यं वैद्यादेः सकाशादुत्पाटयतीति भावः । संवरेण कृत्वाऽऽस्रवं निरुध्य भवता मनोजयः कृत इति सारार्थः । एतेन मनोजयस्यैष एव प्रकारः प्रकारः साधीयान्न तु प्रकारान्तरमित्यपि ध्वन्यते ॥ १ ॥
इन्द्रियजयप्रकारमाह
संयतानि न चाऽक्षाणि नैवोच्छृंखलितानि च । इति सम्यक्प्रतिपदा त्वयेन्द्रियजयः कृतः ॥२॥
संयतानीति - सम्यक्प्रतिपदा - सम्यम्ज्ञानिना, अतएव, त्वया, अक्षाणि - इन्द्रियाणि न च नैव, संयतानि - नियन्त्रिताणि, सर्वथा न निर्व्यापाराणि कृतानि इन्द्रियसत्वे सर्वथा तेषां निव्यापारत्वाऽसम्भवादिति भावः । उच्छृङ्खलितानि - नियन्त्रणशून्यानि, चः समुच्चये, नैव कृतानीति सम्बध्यते । अन्यथाऽसत्स्वपि प्रवर्तेरन्निति भावः । इति = एवम्प्रकारेण इन्द्रियजयः = इन्द्रियनिरोधः कृतः । नेन्द्रियजयः सर्वथेन्द्रियव्यापारनिरोधः, किन्त्वि
,
Jain Education International 2010_dor Private & Personal Use Only
www.jainelibrary.org