SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ (8)* कीर्तिकलाभ्याख्याविभूषितः " तत्तनुः स्वरूपं यस्य स तादृशः, अनन्तज्ञानादिस्वरूपः । गुणगुणिनोरभेदादिति भावः । कृतकृत्यः कृतार्थश्चेत्यर्थः । अत एव भवन्तं प्रार्थये, यत् - यत्कृत्यविधौ - यद्यत्प्रकारं कृत्यं करणीयम् फलमुद्दिश्येत्यर्थबलाल्लभ्यते, तस्य विधौ प्रकारे विधाने वा, किङ्कर्त्तव्यजडे= किंकर्त्तव्यस्य कर्त्तव्यप्रश्नस्य जड उत्तरानभिज्ञः किङ्कर्त्तव्यताविमूढ इत्यर्थः । यः फलमेव न जानाति, तस्य तदुपायज्ञानस्य क्वावसर इति भावः । अतएव, तादृशे, मयि अज्ञे जने, निजात्मसमर्पके, प्रसीद । सिद्धफलो हि प्रसन्नः फलं तदुपायं च दर्शयेन्नान्य इति त्वत्प्रसादमेवात्मसमर्पणेनाऽभिलषामि, त्वत्तोऽन्यस्य सिद्धफलस्याऽभावादिति भावः ॥ ८ ॥ इति श्रीकीर्तिचन्द्रविजयगणिविरचितायां श्रीवीतरागस्तवकीर्तिकलाख्यायां व्याख्यायां त्रयोदशः प्रकाशः ॥ १३ ॥ १२१ चतुर्दशः प्रकाशः सम्प्रति भगवतो योगं वर्णयन् मनोजयमाहमनोवचः कायचेष्टाः कष्टाः संहृत्य सर्वथा । श्लथत्वेनैव भवता मनः शल्यं वियोजितम् ॥ १॥ मन इति — कष्टाः कष्टप्रदाः, सावद्याः, न तु निरवद्या - अपि, तीर्थङ्करत्वादिति भावः । मनोवचः कायचेष्टाः = कायवाङ् Jain Education International 2010_dor Private & Personal Use Only - www.jainelibrary.org
SR No.002579
Book TitleKirtikala
Original Sutra AuthorHemchandracharya
AuthorMunichandrasuri
PublisherSha Bhailal Ambalal Petladwala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy