________________
१२०
श्रीवीतरागस्तवे नवोदशः प्रकाशः
गुणवत्त्वेन विचारागोचरे, ज्ञानातीत इति यावत् । चिन्तारये स्वयं निरीहोऽपि फलप्रद इति चिन्तारत्नतुल्यः- तस्मिन्, ह्यचिन्तितमपि ददाति स चिन्तितं ददातीति सिद्धमेवेति चिन्तार इत्यप्यर्थः । चिन्तारस्नं हि नाऽचिन्त्यमिति विरोधः । समुच्चये, त्वयि = तादृशे भवति विषये मया स्तोत्रा, अयम् स्तुतिक्रियोपयुक्तः, आत्मा - स्वः, अर्पितः = त्वदेकतानः कृतः, त्वदेकाश्रयः कृतो वा । आत्मार्पणे हि न किमप्यवशिष्य यदन्यस्य स्यादिति सर्वथा तवैवाऽस्मि, अचिन्तितस्याऽपि रत्नावृति प्रभृतेर्ला भानुषङ्गार्थमिति ॥ ७ ॥ प्रभृतेर्लाभानुषङ्गार्थमिति
,
आत्मसमर्पणप्रयोजनं ज्ञापयन्नुपसंहरति-
फलानुध्यानवन्ध्योऽहं फलमात्रतनुर्भवान् ।
प्रसीद यत्कृत्यविधौ किङ्कर्त्तव्यजडे मयि ॥८ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितश्रीवीतरागस्त
इति त्रयोदशः प्रकाशः ॥ १३ ॥
फलेति-अहम् = अल्पज्ञोऽज्ञो वा जनः, फलानुध्यान वन्ध्यः = फलानुध्याने किमिष्टमित्येवमनुचिन्तने, मम कः परमा इत्येवं विचारणे, वन्ध्योऽफलः, प्रयस्याऽपि परमार्थं न जानामी सारार्थः, अज्ञत्वादल्पज्ञत्वाद्वेति भावः । " वन्ध्ये मोघा फलमुधा । (अ. चि० | ६ | १५१६ । ) इति । तथा भवान् फलमात्रतनुम फलान्येव फलमात्रम्, सर्वमनन्तज्ञानदर्शनादिरूपं फलमित्यर्थः
Jain Education International 2010_dor Private & Personal Use Only
www.jainelibrary.org