SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ कीर्तिकलाग्याख्याविभूषितः " अनङ्कः- दण्डपुण्ड्रादिचिह्नरहितः, निष्कलङ्क इति स्म परदेवभक्ता हि तत्तद्देवभक्तिसूचकं दण्डपुण्ड्रादिमन्तो भवन्ति, अतएव सगरूपकलङ्कसहिताश्च, नाऽहं तथा । किन्तुं त्वं सेवनीय इत्येतावतैव चिह्नमनादृत्यैव च किङ्करः सेवकः, त्वदाज्ञाराधनादिवेति भावः । अस्मि । यो हि जनेशो दयालू रक्षकश्च तस्यैव कैङ्कर्य सफलम्, अनीदृशस्य तु तन्निष्फलं फल्गुफलं वेति तस्य किङ्कराः शोचनीया एवेति भावः । अत्र किङ्करोऽङ्कसहितो दृष्ट इति विरोधो बोध्यः । परिहार उक्तप्रकारः ॥ ६॥ कैर्यं हि नाज्ञापालनमात्रमपि तु सर्वथाऽऽत्मसमर्पण ・ मित्याह अगोपिते रत्ननिधाववृते कल्पपादपे । अचिन्त्ये चिन्तारले च त्वय्यात्माऽयं मयाऽर्पितः ॥७॥ अगोपित इति-अगोपिते - अनावृते, न तु कृपणधनवभूम्याद्यन्तर्हिते, रत्ननिधौ - दर्शनादिरत्नत्रयाकरे, निधिर्हि गोपितो भवतीति विरोधः । किञ्च परे देवा ज्ञानादिमत्त्वेन वर्णिता अपि न प्रकटाः, त्वन्तु प्रकट इति भावः । तथा, अवृते - वृति - हिते, सस्यवृक्षादिरक्षणाय क्षेत्रादीनां कण्टकादिवेष्टनं वृतिः । प्रभुस्तु कण्टकतुल्यकर्मरूपावरणरहितः । तस्मिन् तादृशे, कल्पवादपे = सर्वोत्कृष्टमुक्तिरूपेष्टप्रदत्वात्कल्पद्रुतुल्ये, अत्र पादपो वृतिहान् भवतीति विरोधः । अचिन्त्ये = सर्वातिशाय्यलाकिकानन्त " Jain Education International 2010_dor Private & Personal Use Only www.jainelibrary.org
SR No.002579
Book TitleKirtikala
Original Sutra AuthorHemchandracharya
AuthorMunichandrasuri
PublisherSha Bhailal Ambalal Petladwala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy