________________
श्रीवीतरागस्तवे प्रयोदशः प्रकाशः
-
-
कल्पद्रुस्तद्वत्प्रदायकः, तस्मात् । कल्पद्रुर्हि सङ्कल्पितं ददाति, आ वसङ्कल्पितमपि जगद्धितकृत्तया ददाति ज्ञानादिकम् , अप्रार्थितस्यै व तस्योपदेशप्रवृत्तरिति भावः । एतादृशात् , त्वत्तः = भवतो वीतरागत एव, फलम्=निजेष्टम् , अवाप्नुयाम्=लभेय । नाइ न्यतः, तेषां दुराराध्यत्वादपकृष्टत्वाच्च तेभ्यः फलप्राप्ते दुष्करः त्वादसम्भवत्वाच्चेति भावः । अत्राऽनुक्षित एव फलप्रद इति. अनिपातो गरीयानिति, असङ्कल्पितस्य कल्पद्रुरिति च विरोधः परिहारस्तुक्त एव ॥५॥
अत एव तस्यैव कैङ्कय युक्तमित्याहअसङ्गस्य जनेशस्य निर्ममस्य कृपात्मनः । मध्यस्थस्य जगत्त्रातुरनङ्कस्तेऽस्मि किङ्करः ॥६॥
असङ्गस्येति - असङ्गस्य = वीतरागत्वाद्विषयासङ्गशून्यस्य जनेशस्य-जनेष्वीशः सर्वातिशायिगुणवत्त्वादीश इव, ईशो ह्यधिक गुणवान् भवतीति भावः । अत्राऽसङ्गो न जनेश इति विरोधः । तथा, निर्ममस्य-वीतरागत्वादेव ममत्वरहितस्य, कृपात्मनः परम कारुणिकस्य । निर्हेतुककारुण्यविशिष्टस्य, तीर्थकरनामकर्मप्रभावादिति भावः । अत्र कृपालुममतावान् दृष्ट इति विरोधः । तथा = मध्यस्थस्य-वीतरागत्वादेव हिताहितयोरुदासीनस्य, जगत्त्रात:विश्वपालकस्य, सद्धर्मोपदेशादिना भवभीतानां त्राणादिति भावः । अत्र मध्यस्थो न जगत्त्रातेति विरोधः । ते = तव तादृशस्य
Jain Education International 2010_For Private & Personal Use Only
www.jainelibrary.org