________________
(8)
कीर्तिकलाव्याख्याविभूषितः
११३
"सहायस्तु सयात्र:स्यादि " त्यमरः । न च केनाऽपि परेष्टदेवादिबद्दीनवागादिनाऽऽहूतस्तथा, स्वत एव सदुपदेशादिभि भव्यानां भवदुःखोच्छेदोपाये प्रवृत्तरित्येतद्वशिष्ट्यं भगवस्येव । ननु नाऽनाहूतःक्वापि सहायो दृष्टइति चेन्न, तदाह-त्वम् , अकारणवत्सलः अकारणं कृतार्थतया निर्हेतुकमेव परमकारुणिकत्वाद् वत्सलः स्निग्धः । “ स्निग्धस्तु वत्सलः " (अ..चि.।३। ४७८) इति । प्राणिषु निर्हेतुकस्नेहसद्भावादेवाऽनाहूतसहायः, यो हि सहेतु सहैति, स एवाऽऽह्वानमपेक्षत इति भावः । एषञ्चाकारणवत्सलस्याऽन्यस्याभावादेव तादृशदृष्टान्ताभाव इति सूचितम् । अत एव, त्वम् , अनभ्यर्थितसाधुः = अनभ्यर्थितोऽप्रार्थित एव साधुः परोपकारी । यो हि कारणं विनैव स्नियति, स कथमुपकारे प्रार्थनामपेक्षताम् । अत एव च, स्वम् , असम्बन्धबान्धवः असम्बन्धो न सम्बन्धो भ्रातृत्वादि यस्य स ताशश्चाऽसौ बान्धवो बन्धुवत्साहाय्यस्नेहोपकारादिप्रवृत्तत्वात्स्वजन इव । " अथ बान्धवः । स्वो ज्ञातिः स्वजनो बन्धुः सगोत्रश्च" (अ. चि. १३५६११) इति । सहायो यदाकदाचित्साधुस्तु सर्वदा, तथा स्नेहवानेव वत्सलः । बन्धुस्तु न वत्सल एव, किन्तु सहायः साधुरपि चेति तत्तद्विशेषणानां न पौनरुक्त्यमित्यवगन्तव्यम् ॥१॥
विरोधाऽभासमुखेन स्तुवन्नाहअनक्तस्निग्धमनसममृजोज्ज्वलवाक्पथम् ।
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org