________________
श्रीवीतरागस्तवे त्रयोदशः प्रकाशः
इति भावः । वैराग्यनिघ्नाय वैराग्ये निघ्नो निष्ठितः, वैराग्यमयायेत्यर्थः । अत एव, परमात्मने परमात्मस्वरूपाय, यो हि वैराग्यमयः, स एव परमात्मा, न तु जातु विषयासक्त इति भावः । नमः नमस्कारोऽस्तु । स एव प्रणम्यो नाऽन्यः इति भावः । अत्र सततमुदासीनो वैराग्यनिघ्नश्चैक एवार्थ इति पुनरुक्ति ने शङ्कनीया । वैराग्यद्वाराऽत्र प्रकाशे भगवतःस्तुति. विषयत्वादुपक्रमोपसंहारयोरेकरूपतानिर्वाहाय तदुपादानादित्यवधेयम् ॥ ८॥
इति श्रीकीर्तिचन्द्रविजयगणिविरचितायां श्रीवीतरागस्तवकी. र्तिकलाख्यायां व्याख्यायां द्वादशः प्रकाशः ॥ १२ ॥
त्रयोदशः प्रकाशः
यद्यपि भगवानुदासीन इति निस्पृहः, तथापि विश्वोप काराय जायते तत्प्रवृत्तिरितीष्टत्वात्तं सप्तसु विभक्तिषु प्रत्येकं यथा क्रमं तत्तद्विभक्त्यन्तैःपद्यैः स्वव्युत्पत्तिविशेषं भङ्गया प्रदर्शयन्स्तौति
अनाहूतसहायस्त्वं त्वमकारणवत्सलः । अनभ्यर्थितसाधुस्त्वं त्वमसम्बन्धबान्धवः ॥१॥
अनाहूतेति-भगवन् !, त्वम् , अनाहूतसहाय: अनाहूतोऽ नाकारित एव सहायः सयात्रः. सुखदःखसंविभागिरित्रमित्यर्थः
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org