________________
कीर्तिकलाभ्याख्याविभूषितः
१११
योपादेयविवेकविशुद्धम्, वैराग्यमेव श्रेय इति ज्ञानजनितमित्यर्थः । वैराग्यम्, त्वयि = भवति सम्यग्ज्ञानिनि, एकायनताम् एकमनन्यमयनमाश्रयो यस्य, तस्य भावस्तत्ताम्, एकाश्रयत्वमित्यर्थः । गतम् = प्राप्तम्, ज्ञानगर्भवैराग्यस्य त्वमेवैक आश्रयः । अन्यत्र तु दुःखगर्भ मोहगर्भ वा वैराग्यम् । एवञ्चाऽसाधारणं विशुद्धञ्च तत् तवेति त्वमेवैको बीतराग इति भावः ॥ ७ ॥
ननु य एकान्ततोऽत्यन्ततश्च विरक्तः, अलं तत्स्तुतिप्रयासेन । तत इष्टसिद्धेः सम्भावनाया दूरापेतत्वादिति चेन्न । तदाह
औदासीन्येऽपि सततं विश्वविश्वोपकारिणे ।
नमो वैराग्यनिघ्नाय तायिने परमात्मने ॥ ८ ॥ इति कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितश्रीवीतरागस्तवे द्वादशः प्रकाशः ॥ १२ ॥
औदासीन्येऽपीति-वीतराग !, तुभ्यम्, सततम् = सर्वदैव, न तु यदाकदाचिदेव, औदासीन्ये = उपेक्षायां सत्यामपि, अपिना महद्वैशिष्ट्यं भगवतो यदौदासीन्येऽप्युपकारकरणमिति सूच्यते । विश्वविश्वोपकारिणे= विश्वेषां सर्वेषां विश्वानामुपलक्षणत्वात्तत्स्थजन्तुनामुपकारिणे सदुपदेशदानादिना हितकराय, तीर्थङ्करनामकर्मप्रभावादिति भावः । अत एवोदासीनस्योपकारकत्वं विरुद्धमप्यविरुद्धम् । अत एव तायिने = पालकाय, यो ह्युपकरोति, स एव पालक
Jain Education International 2010_dor Private & Personal Use Only
www.jainelibrary.org