________________
११०
श्रीवीतरागस्तवे द्वादशः प्रकाशः
न्द्रनरेन्द्रश्याद्युपभोगरूपे, दुःखे = परीषहोपसर्गादिजन्यवेदनादौ, भवे-संसारे, मोक्षे = कर्मक्षयलक्षणे शाश्वताऽखण्डसुखात्मकमुक्ती, चोऽर्थाल्लभ्यते । औदसीन्यम-माध्यस्थ्यम् , उपेक्षामिति यावत् । रागादेरेकान्ततोऽत्यन्ततश्चाऽभावादिति भावः । ईशिषे = स्ववशं करोषि, तदा तत्काले, वैराग्यमेव, नहि वैराग्यं निषेधात्मकमेव । किन्त्वात्मस्थतयोपेक्षारूपेति भावः । इति ततो हेतोः, सर्वदोदा. सीनत्वात् । कुत्र = कस्मिन् काले स्थाने च, विरागवान् = विरक्तः, नाऽसि १ । अपि तु सर्वत्र विरागवानेवाऽसीत्यर्थः । सर्वदैव वीतराग इति भावः ॥ ६ ॥
जिनस्य वैराग्यं चाऽसाधारणमित्याह-- दुःखगर्भे मोहगर्भे वैराग्ये निष्ठिताः परे । ज्ञानगर्भ तु वैराग्यं त्वय्येकायनतां गतम् ॥७॥
दुःखेति-भगवन् !, परे अन्यतीर्थिकाः, दुःखगर्भे दुःखमिष्टवियोगाऽनिष्टप्राप्त्यादिरेव गर्भो जन्महेतुर्यस्य, तादृशे, दु:खजनिते इत्यर्थः । तथा, मोहगर्भे मोहो मूर्छा, स एव गर्भो यस्य, ताशे, अज्ञानाऽनुविद्धे इत्यर्थः । वैराग्याल्लब्धिपूजादिलाभं दृष्ट्वा स्वशक्तिमविचार्यैव तल्लाभेच्छादिभि वैराग्यस्वीकारादिति भावः । वैराग्ये-विरतो, निष्ठिताः निष्ठावन्तः । तत्परा इत्यर्थः । कृताशया इति यावत् । तुर्विशेषे भिन्नक्रमः, किन्तुज्ञानगर्भम = संसाराऽनित्यत्वविषयासेवनदुष्परिणामादिभावनाजनितहे
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org