________________
कीर्तिकलाव्याख्याविभूषितः
१०९
नित्यमिति-भगवन् !, कामेभ्यः = काम्यन्त इति कामा विषयास्तेभ्यः, नित्यम् जन्मतः प्रभृत्येव, विरक्तः तेष्वनासक्तः, कर्मक्षयार्थमेव तेषु प्रवृत्तेरिति ध्येयम् । एभिः कामैः, अलम्= कृतम् , अवश्यभोक्तव्यस्य भुक्तत्वात्पुनर्विरक्तस्य तदुष्परिणामाभिज्ञस्य विवेकिनः प्रवृत्तेरनुचितत्वादनावश्यकत्वाच्चेति भावः । इति इत्येवं कृत्वा. यदा भोक्तव्यभोगानन्तरम् , योगम-सर्वसावधप्रत्याख्यानरूपं व्रतम् , प्रपद्यसे- स्वीकरोषि, दीक्षां गृह्णासीति यावत् । तदा तादृशयोगग्रहणानन्तरम् , ते = तव वीतरागस्य, प्राज्यम् = परां काष्ठामापन्नत्वादतिप्रचुरम् , “ विशालं प्रचुरं प्राज्यं भूरी" त्यमरः । वैराग्यम्-विषयपराङ्मुखता, अस्ति-भवति । अनासक्त्याऽपि विषयसम्पर्कसत्त्वे यद्वैराग्यम् , तदपेक्षया सर्वसावद्यप्रत्याख्यानानन्तरं तत्सर्वविशुद्धम् , लेशतोऽपि दोषाभावादिति योगप्रपत्त्या वैराग्यमुत्कृष्यत इति न दीक्षानर्थक्यमिति भावः ॥५॥
ननु दीक्षाग्रहेऽपि मोक्षेच्छासत्त्वान्न सर्वथा तृष्णाक्षय इति कुतो वैराग्योक्तर्ष इति वाच्यम् । मोक्षेच्छायास्तृष्णारूपत्वाऽभावात् । किञ्च भगवतो एकान्तात्यन्तिकमाध्यस्थ्याद् मोक्षेऽप्युदासीनतया सर्वदैव वैराग्यमित्याह
सुखे दुःखे भवे मोक्षे यदौदासीन्यमीशिषे । तदा वैराग्यमेवेति कुत्र नाऽसि विरागवान् ॥६॥ सुख इति-यदा यद्यत्काले, सुखे-सुखतया प्रसिद्धे देवे
Jain Education International 2010_03or Private & Personal Use Only
www.jainelibrary.org