________________
श्रीवीतरागस्तवे द्वादशः प्रकाश:
___ यत्र तत्र रति नाम विरक्तत्वं तदापि ते ॥४॥
यदेति-नाथ !, त्वया, यदा यस्मिन् भवे, चरमभवाप्राग्भवे, चरमभवेऽपि दीक्षाग्रहात्प्राक् , यत्र-यस्मिन् स्थाने विमाने मनुष्यक्षेत्रे वा, मरुनरेन्द्रश्री:-मरुतो देवाः, नराश्च, तेषामिन्द्रौ, देवेन्द्रो नरेन्द्रश्च, तयोः श्रीलक्ष्मीः, विमानसुखं राज्यसुखं चेत्यर्थः । उपभुज्यते अनुभूयते, तदापि-तत्तत्कालेऽपि, तत्र-तत्तस्थलेषु तादृशोपभोगेषु, ते तव वीतरागस्य, रतिः-आसक्तिः, विरक्तत्वं नाम-वैराग्यमेव किल । नामेत्यलीके । सा रतिरलीकैव । क्स्तुतस्तु . तद्वैराग्यमेव । तद्वैराग्यस्य विवेकपरिशुद्धत्वात् , कर्मफलभोगस्याऽपरिहार्यतयैव तबुद्धयैव कर्म क्षीयतामिति मनसिकृत्य हि जिनस्य तदुपभोगः, नत्वासक्त्या । कथमन्यथा तृणवत्तत्त्यक्त्वा तस्य दीक्षाग्रहणम् । ततश्च विवेकिनां विरक्तानां विषयसम्पर्कः कर्मक्षयार्थमेव, नतु व्यासङ्गादिति जिनः सहजविरक्त एवेति भावः ॥ एवञ्च जिनस्त्र विषयोपभोगसङ्गः सांसारिकत्वे वैराग्यमेव, अनासक्तिप्रवृत्तिकत्वादिति ॥ ४ ॥
न च वाच्यमुभयावस्थायां वैराग्यसत्त्वे दीक्षानर्थक्यमिति, द्वयोरवस्थयो वैराग्यस्य विलक्षणत्वादित्याह--
नित्यं विरक्तः कामेभ्यो यदा योगं प्रपद्यसे । अलमेभिरिति प्राज्यं तदा वैराग्यमस्ति ते ॥५॥
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org