________________
कीर्तिकलाव्याख्याविभूषितः
विवेकशाणे वैराग्यशस्त्रं शातं तथा त्वया । यथा मोक्षेऽपि तत्साक्षादकुण्ठितपराक्रमम् ॥३॥
विवेकेति-भगवन् , त्वया, विवेकशाणैः विवेको हेयोपादेयज्ञानम् , तदेव शाणा निकषोपलाः शस्त्रतक्ष्ण्यसाधनविशेषाः, तैः कृत्वा, वैराग्यशस्त्रम् वैराग्यमेव शस्त्रमिव कर्मवनकर्तनक्षमत्वाच्छस्त्रम् , तत् , तथा तेन प्रकारेण, शातम्=तीक्ष्णीकृतम् परिशोधितं च । यथा येन प्रकारेण, तत्-वैराग्यशस्त्रम् , मोक्षे-कर्मक्षये, अपिनाहेयस्य त्यागरूपे नाशेऽपि, साक्षात् अन्यव्यापाराव्यवधानेन, अकुण्ठितपराक्रमम् अनवरुद्धशक्तिकम् , सम्पन्नमिति शेषः । अविवेकपुरस्कृतेन हि वैराग्येन हेयवदुपादेयमपि सदनुष्ठानादिकं त्यजेत् , ततश्च न कर्मक्षयसम्भवः, सम्यग्दर्शनज्ञानचारित्रैरेव तत्सम्भवात् । विवेकपुरस्कृतेन च तेन हेयपरित्यागेनोपादेयोपादानेन च सम्यग्दर्शनादिना साक्षादेव तल्लाभः । अन्येषां च सम्यग्दर्शनाद्यभावादविवेककलितमेव वैराग्यं परैः स्वीक्रियमाणमपीति तदकिञ्चित्करमेवेति विलक्षणं वैराग्यं भगवतः । अत्र परम्परितरूपकाऽलकारः ॥३॥
ननु तस्य सहजं वैराग्यमित्यसद्वर्णनम् , देवेन्द्रभवे, चरमभवेऽपि च दीक्षाग्रहात्प्राग्नृपत्वे भोगोपभोगप्रवृत्ततया तत्र वैराग्यकथाया वाङ्मात्रत्वादिति चेन्न, तदाह
यदा मरुनरेन्द्रश्री स्त्वया नाथोपभुज्यते ।
Jain Education International 2010_03or Private & Personal Use Only
www.jainelibrary.org