________________
१०६
श्रीवीतरागस्तवे द्वादशः प्रकाशः
दुःखेति-नाथ !, दुःखहेतुषु = शोकनिमित्तेषु, यतो दुः जायते, तेषु, यथा व्याध्यादिषु, नहि कोऽपि कदापि तदि च्छति । वैराग्यम्-अनासक्तिः, विरतिरित्यर्थः । यद्वा दुः हेतुविष्टवियोगादिषु सत्सु जातं वैराग्यम् , तथा = तादृशम् | निस्तुषम् निरावरणम् , निरुपाधिकमित्यर्थः । निर्मलमिति यावा न-नैव । कृत्रिममिति समुदायार्थः । दुःखहेतुष्वतीतेषु तन्मूलन वैराग्यस्याऽप्यपायाकारणाऽभावे कार्याभावनियमादिति भावः । मोक्षोपायप्रवीणस्य मोक्षस्योपायः साधनं तत्र प्रवीणस्य कुशलस तज्ज्ञस्य च, ते तव, सुखहेतुषु-सुखजनकेषु स्रक्चन्दनाङ्गनादिषुः सुखहेतुषु सत्सु वा, यथा = यादृशम् , निस्तुषं वैराग्यमिति सम्बध्यते । सहजं हि वैराग्यमविशेषेण सुखहेतुषु दुःखहेतुष तेषु सत्सु च भवति, न च निवर्तते । ततश्च मोक्षं जायते, इतीदृशं मोक्षोपायं त्वमेव जानासि, अतस्त्वमाजन्म विरागवान पूर्वजन्मन्यपि च तदर्थ कृतश्रमः । अन्ये च न मोक्षोपायः प्रवीणा इति तेषां वैराग्यं दुःखहेतुषु । ततश्च तेषां मोक्षोऽपि न । कृत्रिमस्य वैराग्यस्य तदहेतुत्वादिति विलक्षणं त्वद्वैराग्यमिति भावः । जगदनित्यत्वादिभावनाया जातं वैराग्यमेव विशुद्धम् , दुःखहेतुत्वभावनया जातं च तत्सुखादिलाभे कदाचित्प्रतिपतेदपीति न तद्विशुद्धमिति विशुद्धविरागवान् भगवानेवेति ॥ २ ॥
सहजमपि तद्वैराग्यं नाऽविवेककवलितम् , येन तदकिञ्चित्कर स्यादित्याह
Jain Education International 2010_For Private & Personal Use Only
www.jainelibrary.org