________________
कीर्तिकलाब्याख्याविभूषितः
यभावनैः, आदरै वैराग्यविषयसम्यग्रुचिभिश्च कृत्वा, यद्वा पटवो निरन्तरतया निरतीचारतया च प्रशस्ता ये अभ्यासेषु आदराः सरुचि पुनःपुनर्भृशं च निरन्तरविशुद्धवैराग्यभावनानीत्यर्थः । तैः कृत्वा । तथा-तेन प्रकारेण, वैराग्यम्-विरतिम् , आहरः समचिनोः, वीत
गाणां बहतां पूर्वजन्मन्यर्हद्भक्त्यादिस्थानकोपासनस्याऽऽगमादिषु प्रतिपादितत्वादिति भावः । यथा-येन प्रकारेण, इह = चरमे, जन्मनि भवे, आजन्म = जन्मन एवाऽऽरभ्य, तद् = वैराग्यम् , सात्मीभावम् तादात्म्यम् , आगमत् = प्रापत् । दीक्षाग्रहणात्पूर्व केषाश्चिच दारादिपरिग्रहः कर्मफलस्याऽनिवार्यत्वादेव, नतु रागादिति ध्येयम् । यद्धि सदभ्यस्तं भवति, तत्तादात्म्यमेति, तच्च नैकेन जन्मना । यदुक्तम्-" अनेकजन्मसंसिद्धस्ततो याति परां गतिमि" ति । न पर इवेह जन्मन्येव विरक्तो भगवान् , किन्तु पूर्वजन्मत एव तथाप्रवृत्तिकः । अत एव सहजविरागगुणवान् , न च सहजवैराग्यं विना तादृशभुवनाद्भुतगुणलाभः । सहजविरक्तत्वाच्च सर्वे सर्वात्मना गुणा भगवति, कदापि दोषमूलस्य रागस्याऽभावात् , सर्वदैव गुणमूलस्य विरागस्य सद्भावाचेति भावः ॥१॥
तच भगवतो वैराग्यं विलक्षणमित्याहदुःखहेतुषु वैराग्यं न तथा नाथ ! निस्तुषम् । मोक्षोपायप्रवीणस्य यथा ते सुखहेतुषु ॥२॥
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org