________________
१०४
श्रीवीतरागस्तवे द्वादशः प्रकाशः
1
"
भावः । अतएव, महात्मनाम् - देवेन्द्रादीनाम् । योगिनामप त्यर्थबलाल्लभ्यते । महनीयः - पूजनीयः, ध्येयश्च । यो हि सर्वं महान् स सर्वैरपि पूज्यते इति भावः । अतएव, स्वामी = नाथः, स तादृशः, स्तुवतः - स्तुतिं कुर्वतः मे - ममा महात्मनोऽवि स्तुतेः, गोचरम् = विषयत्वम् आगमत् = प्राप्तः, इत्येतद् अहो ! = सानन्दाश्चर्यजनकम् । दुर्लभस्य लाभो हि मादृशस्याs ल्पस्य हर्षातिरेकजनको विस्मयजनकश्च । तथा च परं कृतार्थों ऽस्मि । यदुक्तम् - " इदं हि भवकान्तारे जन्मिनां जन्मनः फलमि ' ति । सर्वमहान् वीतराग एव स्तोतव्यः, ततश्चाद्भुतलाभ इति भावः ॥ ८ ॥
इति श्रीकीर्तिचन्द्रविजयगणिविरचितायां श्रीवीतरागस्तवकीर्ति कलाख्यायां व्याख्यायां एकादशः प्रकाशः ॥ ११ ॥
स्तुवन्नाह -
"
द्वादशः प्रकाशः
भगवतः सर्वात्मना सर्वगुणवत्त्वं वैराग्यमूलमिति वैराग्यद्वार
पट्वभ्यासादरैः पूर्व तथा वैराग्यमाहरः । यथेह जन्मन्याजन्म तत्सात्मीभावमागमत् ॥ १॥ पट्वभ्यासेति -- वीतराग ! त्वम्, पूर्वम् = पूर्वजन्मनि, पट्व भ्यासादरैः = पटुभिरिष्टसाधनक्षमैः, अभ्यासैः क्रियाभ्यावृत्त्या वैर
Jain Education International 2010_dor Private & Personal Use Only
www.jainelibrary.org