________________
श्रीवीतरागस्तवे त्रयोदशः प्रकाशः
अधौतामलशीलं त्वां शरण्यं शरणं श्रये ॥२॥
अनक्तेति-वीतराग !, अनक्तस्निग्धमनसम्-अनक्तम् कर्मरजःसंश्लेषकत्वान्मोहस्तैलादिस्नेह इवाऽभ्यङ्गोऽञ्जनम् , न तेनाऽक्तं सलिलमित्यनक्तम् , मोहाद्यभ्यङ्गसम्पर्कशून्यमपि, स्निग्धं वत्सलं मनो यस्य जन्तुषु, तं तादृशम् । अकारणवत्सलमिति यावत् । अत्र नाऽक्तं तैलाद्यभ्यङ्गरहितं तत्कथं स्निग्धं तेलादिस्नेहसम्पृक्तमिति विरोधः । परिहारस्तुक्त एव । तथा, अमृजोज्ज्वलवाक्पथम् अमृजम् न मृजा शोधनं यस्य तत् , भास्वरतापादकसंस्कारशून्यमपि, । उज्ज्वलं यथार्थत्वादवदातं वाक्पथं देशनापद्धतिर्यस्य, तं. तादृशम् । न हि भगवतो वचःशुद्धिः शास्त्राद्यध्ययनरूपां मृजामपेक्षते । निसर्गसम्यक्त्ववत्त्वात्केवलित्वाचेति भावः । अत्र यदमृजं न तदुज्ज्वलमिति विरोधः । तत्परिहारस्तुक्तप्रकारेण । तथा, अधौतामलशीलम् न धौतं प्रक्षालितम् , निसर्गवैराग्यात्परिकर्मरहितम् । तथाऽप्यमलमतीचारादिदोषरहितत्वात्परिशुद्धमनवचं शीलं चारित्रं यस्य, तत्तादृशम् । सर्वसावद्ययोगप्रत्याख्यानान्निर्मलचारित्रवन्तमित्यर्थः । अत्राऽपि यन धौतं न तदमलमिति विरोधः । परिहारस्तूक्तप्रकारेणार्थेन कृत. एव । ननु भवतु तस्य तत्सर्वम् , तावता न स्वस्य कोऽपि लाम इति चेत्तत्राह-शरण्यम् शरणे रक्षणे साधुं दक्षम् । अत एव, शरणम्-रक्षकम् , त्वाम् भवन्तं वीतरागमेव, श्रये-प्रपन्नोऽस्मि । यो हि सहेतु स्निग्धः, स न यथार्थवक्तोज्ज्वलवाक्पथः,
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org